Ṛgveda · Maṇḍala 10 · Sūkta 97
Ṛk 10.97.21
Saṃhitā
याश्चे॒दमु॑पशृ॒ण्वंति॒ याश्च॑ दू॒रं परा॑गताः ।
सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्यं॑ ॥
याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः |
सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ||
yā́ścedámupaśṛṇvánti yā́śca dūrám párāgatāḥ ǀ
sárvāḥ saṃgátya vīrudho’syái sám datta vīryám ǁ
yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ |
sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam ||
Padapāṭha
याः । च॒ । इ॒दम् । उ॒प॒ऽशृ॒ण्वन्ति॑ । याः । च॒ । दू॒रम् । परा॑ऽगताः ।
सर्वाः॑ । स॒म्ऽगत्य॑ । वी॒रु॒धः॒ । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥
याः । च । इदम् । उपऽशृण्वन्ति । याः । च । दूरम् । पराऽगताः ।
सर्वाः । सम्ऽगत्य । वीरुधः । अस्यै । सम् । दत्त । वीर्यम् ॥
yā́ḥ ǀ ca ǀ idám ǀ upa-śṛṇvánti ǀ yā́ḥ ǀ ca ǀ dūrám ǀ párā-gatāḥ ǀ
sárvāḥ ǀ sam-gátya ǀ vīrudhaḥ ǀ asyái ǀ sám ǀ datta ǀ vīryám ǁ
yāḥ ǀ ca ǀ idam ǀ upa-śṛṇvanti ǀ yāḥ ǀ ca ǀ dūram ǀ parā-gatāḥ ǀ
sarvāḥ ǀ sam-gatya ǀ vīrudhaḥ ǀ asyai ǀ sam ǀ datta ǀ vīryam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.097.21
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.11.06
- Maṇḍala · Anuvāka · Ṛk
- 10.08.111
- Devatā देवता
- Auṣadhīstutiḥ
- Ṛṣi ऋषि
- Bhiṣaj Ātharvaṇa
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.