Ṛgveda · Maṇḍala 10 · Sūkta 97
Ṛk 10.97.19
Saṃhitā
या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ ।
बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्यं॑ ॥
या ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु |
बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ||
yā́ óṣadhīḥ sómarājñīrvíṣṭhitāḥ pṛthivī́mánu ǀ
bṛ́haspátiprasūtā asyái sám datta vīryám ǁ
yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu |
bṛhaspatiprasūtā asyai saṃ datta vīryam ||
Padapāṭha
याः । ओष॑धीः । सोम॑ऽराज्ञीः । विऽस्थि॑ताः । पृ॒थि॒वीम् । अनु॑ ।
बृह॒स्पति॑ऽप्रसूताः । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥
याः । ओषधीः । सोमऽराज्ञीः । विऽस्थिताः । पृथिवीम् । अनु ।
बृहस्पतिऽप्रसूताः । अस्यै । सम् । दत्त । वीर्यम् ॥
yā́ḥ ǀ óṣadhīḥ ǀ sóma-rājñīḥ ǀ ví-sthitāḥ ǀ pṛthivī́m ǀ ánu ǀ
bṛ́haspáti-prasūtāḥ ǀ asyái ǀ sám ǀ datta ǀ vīryám ǁ
yāḥ ǀ oṣadhīḥ ǀ soma-rājñīḥ ǀ vi-sthitāḥ ǀ pṛthivīm ǀ anu ǀ
bṛhaspati-prasūtāḥ ǀ asyai ǀ sam ǀ datta ǀ vīryam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.097.19
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.11.04
- Maṇḍala · Anuvāka · Ṛk
- 10.08.109
- Devatā देवता
- Auṣadhīstutiḥ
- Ṛṣi ऋषि
- Bhiṣaj Ātharvaṇa
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.