Ṛgveda · Maṇḍala 10 · Sūkta 97
Ṛk 10.97.18
Saṃhitā
या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः ।
तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥
या ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः |
तासां त्वम् अस्य् उत्तमारं कामाय शं हृदे ||
yā́ óṣadhīḥ sómarājñīrbahvī́ḥ śatávicakṣaṇāḥ ǀ
tā́sām tvámasyuttamā́ram kā́māya śám hṛdé ǁ
yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ |
tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde ||
Padapāṭha
याः । ओष॑धीः । सोम॑ऽराज्ञीः । ब॒ह्वीः । श॒तऽवि॑चक्षणाः ।
तासा॑म् । त्वम् । अ॒सि॒ । उ॒त्ऽत॒मा । अर॑म् । कामा॑य । शम् । हृ॒दे ॥
याः । ओषधीः । सोमऽराज्ञीः । बह्वीः । शतऽविचक्षणाः ।
तासाम् । त्वम् । असि । उत्ऽतमा । अरम् । कामाय । शम् । हृदे ॥
yā́ḥ ǀ óṣadhīḥ ǀ sóma-rājñīḥ ǀ bahvī́ḥ ǀ śatá-vicakṣaṇāḥ ǀ
tā́sām ǀ tvám ǀ asi ǀ ut-tamā́ ǀ áram ǀ kā́māya ǀ śám ǀ hṛdé ǁ
yāḥ ǀ oṣadhīḥ ǀ soma-rājñīḥ ǀ bahvīḥ ǀ śata-vicakṣaṇāḥ ǀ
tāsām ǀ tvam ǀ asi ǀ ut-tamā ǀ aram ǀ kāmāya ǀ śam ǀ hṛde ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.097.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.11.03
- Maṇḍala · Anuvāka · Ṛk
- 10.08.108
- Devatā देवता
- Auṣadhīstutiḥ
- Ṛṣi ऋषि
- Bhiṣaj Ātharvaṇa
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.