Ṛgveda · Maṇḍala 10 · Sūkta 97

Ṛk 10.97.23

Auṣadhīstutiḥ · Bhiṣaj Ātharvaṇa

The whole sūkta Link

Saṃhitā

त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः ।
उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥

त्वम् उत्तमास्य् ओषधे तव वृक्षा उपस्तयः |
उपस्तिर् अस्तु सो ऽस्माकं यो अस्मां अभिदासति ||

tvámuttamā́syoṣadhe táva vṛkṣā́ úpastayaḥ ǀ
úpastirastu só’smā́kam yó asmā́m̐ abhidā́sati ǁ

tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ |
upastir astu so 'smākaṃ yo asmāṃ abhidāsati ||

Padapāṭha

त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः ।
उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥

त्वम् । उत्ऽतमा । असि । ओषधे । तव । वृक्षाः । उपस्तयः ।
उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिऽदासति ॥

tvám ǀ ut-tamā́ ǀ asi ǀ oṣadhe ǀ táva ǀ vṛkṣā́ḥ ǀ úpastayaḥ ǀ
úpastiḥ ǀ astu ǀ sáḥ ǀ asmā́kam ǀ yáḥ ǀ asmā́n ǀ abhi-dā́sati ǁ

tvam ǀ ut-tamā ǀ asi ǀ oṣadhe ǀ tava ǀ vṛkṣāḥ ǀ upastayaḥ ǀ
upastiḥ ǀ astu ǀ saḥ ǀ asmākam ǀ yaḥ ǀ asmān ǀ abhi-dāsati ǁ

References

Maṇḍala · Sūkta · Ṛk
10.097.23
Aṣṭaka · Adhyāya · Varga · Ṛk
8.5.11.08
Maṇḍala · Anuvāka · Ṛk
10.08.113
Devatā देवता
Auṣadhīstutiḥ
Ṛṣi ऋषि
Bhiṣaj Ātharvaṇa
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.97.23

Interpretations

Sāyaṇa

हे ओषधे सोमाख्ये त्वमोषधीनामन्यासामुत्तमासि। तव वृक्षाह् सर्व उपस्तयः। अधः शायिन एव। तथा सति स उपस्तिरस्तु अधः शायी भवतु योऽस्मानभिदासति हिनस्ति। भ्रातृव्य इति॥२३॥