Ṛgveda · Maṇḍala 10 · Sūkta 113
Ṛk 10.113.8
Saṃhitā
विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ ।
र॒द्धं वृ॒त्रमहि॒मिंद्र॑स्य॒ हन्म॑ना॒ग्निर्न जंभै॑स्तृ॒ष्वन्न॑मावयत् ॥
विश्वे देवासो अध वृष्ण्यानि ते ऽवर्धयन् सोमवत्या वचस्यया |
रद्धं वृत्रम् अहिम् इन्द्रस्य हन्मनाग्निर् न जम्भैस् तृष्व् अन्नम् आवयत् ||
víśve devā́so ádha vṛ́ṣṇyāni té’vardhayantsómavatyā vacasyáyā ǀ
raddhám vṛtrámáhimíndrasya hánmanāgnírná jámbhaistṛṣvánnamāvayat ǁ
viśve devāso adha vṛṣṇyāni te 'vardhayan somavatyā vacasyayā |
raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat ||
Padapāṭha
विश्वे॑ । दे॒वासः॑ । अध॑ । वृष्ण्या॑नि । ते॒ । अव॑र्धयन् । सोम॑ऽवत्या । व॒च॒स्यया॑ ।
र॒द्धम् । वृ॒त्रम् । अहि॑म् । इन्द्र॑स्य । हन्म॑ना । अ॒ग्निः । न । जम्भैः॑ । तृ॒षु । अन्न॑म् । आ॒व॒य॒त् ॥
विश्वे । देवासः । अध । वृष्ण्यानि । ते । अवर्धयन् । सोमऽवत्या । वचस्यया ।
रद्धम् । वृत्रम् । अहिम् । इन्द्रस्य । हन्मना । अग्निः । न । जम्भैः । तृषु । अन्नम् । आवयत् ॥
víśve ǀ devā́saḥ ǀ ádha ǀ vṛ́ṣṇyāni ǀ te ǀ ávardhayan ǀ sóma-vatyā ǀ vacasyáyā ǀ
raddhám ǀ vṛtrám ǀ áhim ǀ índrasya ǀ hánmanā ǀ agníḥ ǀ ná ǀ jámbhaiḥ ǀ tṛṣú ǀ ánnam ǀ āvayat ǁ
viśve ǀ devāsaḥ ǀ adha ǀ vṛṣṇyāni ǀ te ǀ avardhayan ǀ soma-vatyā ǀ vacasyayā ǀ
raddham ǀ vṛtram ǀ ahim ǀ indrasya ǀ hanmanā ǀ agniḥ ǀ na ǀ jambhaiḥ ǀ tṛṣu ǀ annam ǀ āvayat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.113.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.15.03
- Maṇḍala · Anuvāka · Ṛk
- 10.10.008
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śataprabhedana Vairūpa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.