Ṛgveda · Maṇḍala 10 · Sūkta 113
Ṛk 10.113.5
Saṃhitā
आदिंद्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत ।
अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥
आद् इन्द्रः सत्रा तविषीर् अपत्यत वरीयो द्यावापृथिवी अबाधत |
अवाभरद् धृषितो वज्रम् आयसं शेवम् मित्राय वरुणाय दाशुषे ||
ā́díndraḥ satrā́ táviṣīrapatyata várīyo dyā́vāpṛthivī́ abādhata ǀ
ávābharaddhṛṣitó vájramāyasám śévam mitrā́ya váruṇāya dāśúṣe ǁ
ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata |
avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe ||
Padapāṭha
आत् । इन्द्रः॑ । स॒त्रा । तवि॑षीः । अ॒प॒त्य॒त॒ । वरी॑यः । द्यावा॑पृथि॒वी इति॑ । अ॒बा॒ध॒त॒ ।
अव॑ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र॑म् । आ॒य॒सम् । शेव॑म् । मि॒त्राय॑ । वरु॑णाय । दा॒शुषे॑ ॥
आत् । इन्द्रः । सत्रा । तविषीः । अपत्यत । वरीयः । द्यावापृथिवी इति । अबाधत ।
अव । अभरत् । धृषितः । वज्रम् । आयसम् । शेवम् । मित्राय । वरुणाय । दाशुषे ॥
ā́t ǀ índraḥ ǀ satrā́ ǀ táviṣīḥ ǀ apatyata ǀ várīyaḥ ǀ dyā́vāpṛthivī́ íti ǀ abādhata ǀ
áva ǀ abharat ǀ dhṛṣitáḥ ǀ vájram ǀ āyasám ǀ śévam ǀ mitrā́ya ǀ váruṇāya ǀ dāśúṣe ǁ
āt ǀ indraḥ ǀ satrā ǀ taviṣīḥ ǀ apatyata ǀ varīyaḥ ǀ dyāvāpṛthivī iti ǀ abādhata ǀ
ava ǀ abharat ǀ dhṛṣitaḥ ǀ vajram ǀ āyasam ǀ śevam ǀ mitrāya ǀ varuṇāya ǀ dāśuṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.113.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.14.05
- Maṇḍala · Anuvāka · Ṛk
- 10.10.005
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śataprabhedana Vairūpa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.