Ṛgveda · Maṇḍala 10 · Sūkta 104
Ṛk 10.104.8
Saṃhitā
स॒प्तापो॑ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभिः॒ सिंधु॒मत॑र इंद्र पू॒र्भित् ।
न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रवं॑तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विंदः ॥
सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुम् अतर इन्द्र पूर्भित् |
नवतिं स्रोत्या नव च स्रवन्तीर् देवेभ्यो गातुम् मनुषे च विन्दः ||
saptā́po devī́ḥ suráṇā ámṛktā yā́bhiḥ síndhumátara indra pūrbhít ǀ
navatím srotyā́ náva ca srávantīrdevébhyo gātúm mánuṣe ca vindaḥ ǁ
saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit |
navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ ||
Padapāṭha
स॒प्त । आपः॑ । दे॒वीः । सु॒ऽरणाः॑ । अमृ॑क्ताः । याभिः॑ । सिन्धु॑म् । अत॑रः । इ॒न्द्र॒ । पूः॒ऽभित् ।
न॒व॒तिम् । स्रो॒त्याः । नव॑ । च॒ । स्रव॑न्तीः । दे॒वेभ्यः॑ । गा॒तुम् । मनु॑षे । च॒ । वि॒न्दः॒ ॥
सप्त । आपः । देवीः । सुऽरणाः । अमृक्ताः । याभिः । सिन्धुम् । अतरः । इन्द्र । पूःऽभित् ।
नवतिम् । स्रोत्याः । नव । च । स्रवन्तीः । देवेभ्यः । गातुम् । मनुषे । च । विन्दः ॥
saptá ǀ ā́paḥ ǀ devī́ḥ ǀ su-ráṇāḥ ǀ ámṛktāḥ ǀ yā́bhiḥ ǀ síndhum ǀ átaraḥ ǀ indra ǀ pūḥ-bhít ǀ
navatím ǀ srotyā́ḥ ǀ náva ǀ ca ǀ srávantīḥ ǀ devébhyaḥ ǀ gātúm ǀ mánuṣe ǀ ca ǀ vindaḥ ǁ
sapta ǀ āpaḥ ǀ devīḥ ǀ su-raṇāḥ ǀ amṛktāḥ ǀ yābhiḥ ǀ sindhum ǀ ataraḥ ǀ indra ǀ pūḥ-bhit ǀ
navatim ǀ srotyāḥ ǀ nava ǀ ca ǀ sravantīḥ ǀ devebhyaḥ ǀ gātum ǀ manuṣe ǀ ca ǀ vindaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.104.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.25.03
- Maṇḍala · Anuvāka · Ṛk
- 10.09.057
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aṣṭaka Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.