Ṛgveda · Maṇḍala 10 · Sūkta 41
Ṛk 10.41.1
Saṃhitā
स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१॒॑ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतं ।
परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे ॥
समानम् उ त्यम् पुरुहूतम् उक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् |
परिज्मानं विदथ्यं सुवृक्तिभिर् वयं व्युष्टा उषसो हवामहे ||
samānámu tyám puruhūtámukthyám rátham tricakrám sávanā gánigmatam ǀ
párijmānam vidathyám suvṛktíbhirvayám vyúṣṭā uṣáso havāmahe ǁ
samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam |
parijmānaṃ vidathyaṃ suvṛktibhir vayaṃ vyuṣṭā uṣaso havāmahe ||
Padapāṭha
स॒मा॒नम् । ऊं॒ इति॑ । त्यम् । पु॒रु॒ऽहू॒तम् । उ॒क्थ्य॑म् । रथ॑म् । त्रि॒ऽच॒क्रम् । सव॑ना । गनि॑ग्मतम् ।
परि॑ऽज्मानम् । वि॒द॒थ्य॑म् । सु॒वृ॒क्तिऽभिः॑ । व॒यम् । विऽउ॑ष्टौ । उ॒षसः॑ । ह॒वा॒म॒हे॒ ॥
समानम् । ऊं इति । त्यम् । पुरुऽहूतम् । उक्थ्यम् । रथम् । त्रिऽचक्रम् । सवना । गनिग्मतम् ।
परिऽज्मानम् । विदथ्यम् । सुवृक्तिऽभिः । वयम् । विऽउष्टौ । उषसः । हवामहे ॥
samānám ǀ ūṃ íti ǀ tyám ǀ puru-hūtám ǀ ukthyám ǀ rátham ǀ tri-cakrám ǀ sávanā ǀ gánigmatam ǀ
pári-jmānam ǀ vidathyám ǀ suvṛktí-bhiḥ ǀ vayám ǀ ví-uṣṭau ǀ uṣásaḥ ǀ havāmahe ǁ
samānam ǀ ūṃ iti ǀ tyam ǀ puru-hūtam ǀ ukthyam ǀ ratham ǀ tri-cakram ǀ savanā ǀ ganigmatam ǀ
pari-jmānam ǀ vidathyam ǀ suvṛkti-bhiḥ ǀ vayam ǀ vi-uṣṭau ǀ uṣasaḥ ǀ havāmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.041.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.21.01
- Maṇḍala · Anuvāka · Ṛk
- 10.03.132
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Suhastya Ghauṣeya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.