Ṛgveda · Maṇḍala 10 · Sūkta 40

Ṛk 10.40.14

Aśvins · Ghoṣā Kākṣīvatī

The whole sūkta Link

Saṃhitā

क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ ।
क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हं ॥

क्व स्विद् अद्य कतमास्व् अश्विना विक्षु दस्रा मादयेते शुभस् पती |
क ईं नि येमे कतमस्य जग्मतुर् विप्रस्य वा यजमानस्य वा गृहम् ||

kvá svidadyá katamā́svaśvínā vikṣú dasrā́ mādayete śubháspátī ǀ
ká īm ní yeme katamásya jagmaturvíprasya vā yájamānasya vā gṛhám ǁ

kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī |
ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham ||

Padapāṭha

क्व॑ । स्वि॒त् । अ॒द्य । क॒त॒मासु॑ । अ॒श्विना॑ । वि॒क्षु । द॒स्रा । मा॒द॒ये॒ते॒ इति॑ । शु॒भः । पती॒ इति॑ ।
कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य॑ । ज॒ग्म॒तुः॒ । विप्र॑स्य । वा॒ । यज॑मानस्य । वा॒ । गृ॒हम् ॥

क्व । स्वित् । अद्य । कतमासु । अश्विना । विक्षु । दस्रा । मादयेते इति । शुभः । पती इति ।
कः । ईम् । नि । येमे । कतमस्य । जग्मतुः । विप्रस्य । वा । यजमानस्य । वा । गृहम् ॥

kvá ǀ svit ǀ adyá ǀ katamā́su ǀ aśvínā ǀ vikṣú ǀ dasrā́ ǀ mādayete íti ǀ śubháḥ ǀ pátī íti ǀ
káḥ ǀ īm ǀ ní ǀ yeme ǀ katamásya ǀ jagmatuḥ ǀ víprasya ǀ vā ǀ yájamānasya ǀ vā ǀ gṛhám ǁ

kva ǀ svit ǀ adya ǀ katamāsu ǀ aśvinā ǀ vikṣu ǀ dasrā ǀ mādayete iti ǀ śubhaḥ ǀ patī iti ǀ
kaḥ ǀ īm ǀ ni ǀ yeme ǀ katamasya ǀ jagmatuḥ ǀ viprasya ǀ vā ǀ yajamānasya ǀ vā ǀ gṛham ǁ

References

Maṇḍala · Sūkta · Ṛk
10.040.14
Aṣṭaka · Adhyāya · Varga · Ṛk
7.8.20.04
Maṇḍala · Anuvāka · Ṛk
10.03.131
Devatā देवता
Aśvins
Ṛṣi ऋषि
Ghoṣā Kākṣīvatī
Chandas छन्दस्
Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.40.14

Interpretations

Sāyaṇa

समानमितितृचं द्वादशं सूक्तं घोषायाः पुत्रस्य सुहस्त्यस्यार्षं जागतमाश्विनं अनुक्रांतंच --समानंतृचंसुहस्त्योघौषेयइति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।