Ṛgveda · Maṇḍala 10 · Sūkta 40
Ṛk 10.40.6
Saṃhitā
यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो॑ जरि॒तुर्न॑शायथः ।
यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ॥
युवं कवी ष्ठः पर्य् अश्विना रथं विशो न कुत्सो जरितुर् नशायथः |
युवोर् ह मक्षा पर्य् अश्विना मध्व् आसा भरत निष्कृतं न योषणा ||
yuvám kavī́ ṣṭhaḥ páryaśvinā rátham víśo ná kútso jaritúrnaśāyathaḥ ǀ
yuvórha mákṣā páryaśvinā mádhvāsā́ bharata niṣkṛtám ná yóṣaṇā ǁ
yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ |
yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā ||
Padapāṭha
यु॒वम् । क॒वी इति॑ । स्थः॒ । परि॑ । अ॒श्वि॒ना॒ । रथ॑म् । विशः॑ । न । कुत्सः॑ । ज॒रि॒तुः । न॒शा॒य॒थः॒ ।
यु॒वोः । ह॒ । मक्षा॑ । परि॑ । अ॒श्वि॒ना॒ । मधु॑ । आ॒सा । भ॒र॒त॒ । निः॒ऽकृ॒तम् । न । योष॑णा ॥
युवम् । कवी इति । स्थः । परि । अश्विना । रथम् । विशः । न । कुत्सः । जरितुः । नशायथः ।
युवोः । ह । मक्षा । परि । अश्विना । मधु । आसा । भरत । निःऽकृतम् । न । योषणा ॥
yuvám ǀ kavī́ íti ǀ sthaḥ ǀ pári ǀ aśvinā ǀ rátham ǀ víśaḥ ǀ ná ǀ kútsaḥ ǀ jaritúḥ ǀ naśāyathaḥ ǀ
yuvóḥ ǀ ha ǀ mákṣā ǀ pári ǀ aśvinā ǀ mádhu ǀ āsā́ ǀ bharata ǀ niḥ-kṛtám ǀ ná ǀ yóṣaṇā ǁ
yuvam ǀ kavī iti ǀ sthaḥ ǀ pari ǀ aśvinā ǀ ratham ǀ viśaḥ ǀ na ǀ kutsaḥ ǀ jarituḥ ǀ naśāyathaḥ ǀ
yuvoḥ ǀ ha ǀ makṣā ǀ pari ǀ aśvinā ǀ madhu ǀ āsā ǀ bharata ǀ niḥ-kṛtam ǀ na ǀ yoṣaṇā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.040.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.19.01
- Maṇḍala · Anuvāka · Ṛk
- 10.03.123
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Ghoṣā Kākṣīvatī
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.