Ṛgveda · Maṇḍala 10 · Sūkta 89
Ṛk 10.89.2
Saṃhitā
स सूर्यः॒ पर्यु॒रू वरां॒स्येंद्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा ।
अति॑ष्ठंतमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥
स सूर्यः पर्य् उरू वरांस्य् एन्द्रो ववृत्याद् रथ्येव चक्रा |
अतिष्ठन्तम् अपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ||
sá sū́ryaḥ páryurū́ várāṃsyéndro vavṛtyādráthyeva cakrā́ ǀ
átiṣṭhantamapasyám ná sárgam kṛṣṇā́ támāṃsi tvíṣyā jaghāna ǁ
sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā |
atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna ||
Padapāṭha
सः । सूर्यः॑ । परि॑ । उ॒रु । वरां॑सि । आ । इन्द्रः॑ । व॒वृ॒त्या॒त् । रथ्या॑ऽइव । च॒क्रा ।
अति॑ष्ठन्तम् । अ॒प॒स्य॑म् । न । सर्ग॑म् । कृ॒ष्णा । तमां॑सि । त्विष्या॑ । ज॒घा॒न॒ ॥
सः । सूर्यः । परि । उरु । वरांसि । आ । इन्द्रः । ववृत्यात् । रथ्याऽइव । चक्रा ।
अतिष्ठन्तम् । अपस्यम् । न । सर्गम् । कृष्णा । तमांसि । त्विष्या । जघान ॥
sáḥ ǀ sū́ryaḥ ǀ pári ǀ urú ǀ várāṃsi ǀ ā́ ǀ índraḥ ǀ vavṛtyāt ǀ ráthyā-iva ǀ cakrā́ ǀ
átiṣṭhantam ǀ apasyám ǀ ná ǀ sárgam ǀ kṛṣṇā́ ǀ támāṃsi ǀ tvíṣyā ǀ jaghāna ǁ
saḥ ǀ sūryaḥ ǀ pari ǀ uru ǀ varāṃsi ǀ ā ǀ indraḥ ǀ vavṛtyāt ǀ rathyā-iva ǀ cakrā ǀ
atiṣṭhantam ǀ apasyam ǀ na ǀ sargam ǀ kṛṣṇā ǀ tamāṃsi ǀ tviṣyā ǀ jaghāna ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.089.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.14.02
- Maṇḍala · Anuvāka · Ṛk
- 10.07.116
- Devatā देवता
- 1-4, 6-18: Indra; 5: Indra, Soma
- Ṛṣi ऋषि
- Reṇu Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.