Ṛgveda · Maṇḍala 10 · Sūkta 89
Ṛk 10.89.3
Saṃhitā
स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्यं॑ ।
वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इंद्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥
समानम् अस्मा अनपावृद् अर्च क्ष्मया दिवो असमम् ब्रह्म नव्यम् |
वि यः पृष्ठेव जनिमान्य् अर्य इन्द्रश् चिकाय न सखायम् ईषे ||
samānámasmā ánapāvṛdarca kṣmayā́ divó ásamam bráhma návyam ǀ
ví yáḥ pṛṣṭhéva jánimānyaryá índraścikā́ya ná sákhāyamīṣé ǁ
samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam |
vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe ||
Padapāṭha
स॒मा॒नम् । अ॒स्मै॒ । अन॑पऽवृत् । अ॒र्च॒ । क्ष्म॒या । दि॒वः । अस॑मम् । ब्रह्म॑ । नव्य॑म् ।
वि । यः । पृ॒ष्ठाऽइ॑व । जनि॑मानि । अ॒र्यः । इन्द्रः॑ । चि॒काय॑ । न । सखा॑यम् । ई॒षे ॥
समानम् । अस्मै । अनपऽवृत् । अर्च । क्ष्मया । दिवः । असमम् । ब्रह्म । नव्यम् ।
वि । यः । पृष्ठाऽइव । जनिमानि । अर्यः । इन्द्रः । चिकाय । न । सखायम् । ईषे ॥
samānám ǀ asmai ǀ ánapa-vṛt ǀ arca ǀ kṣmayā́ ǀ diváḥ ǀ ásamam ǀ bráhma ǀ návyam ǀ
ví ǀ yáḥ ǀ pṛṣṭhā́-iva ǀ jánimāni ǀ aryáḥ ǀ índraḥ ǀ cikā́ya ǀ ná ǀ sákhāyam ǀ īṣé ǁ
samānam ǀ asmai ǀ anapa-vṛt ǀ arca ǀ kṣmayā ǀ divaḥ ǀ asamam ǀ brahma ǀ navyam ǀ
vi ǀ yaḥ ǀ pṛṣṭhā-iva ǀ janimāni ǀ aryaḥ ǀ indraḥ ǀ cikāya ǀ na ǀ sakhāyam ǀ īṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.089.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.14.03
- Maṇḍala · Anuvāka · Ṛk
- 10.07.117
- Devatā देवता
- 1-4, 6-18: Indra; 5: Indra, Soma
- Ṛṣi ऋषि
- Reṇu Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.