Ṛgveda · Maṇḍala 10 · Sūkta 89
Ṛk 10.89.4
Saṃhitā
इंद्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।
यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तंभ॑ पृथि॒वीमु॒त द्यां ॥
इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् |
यो अक्षेणेव चक्रिया शचीभिर् विष्वक् तस्तम्भ पृथिवीम् उत द्याम् ||
índrāya gíro ániśitasargā apáḥ prérayam ságarasya budhnā́t ǀ
yó ákṣeṇeva cakríyā śácībhirvíṣvaktastámbha pṛthivī́mutá dyām ǁ
indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt |
yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām ||
Padapāṭha
इन्द्रा॑य । गिरः॑ । अनि॑शितऽसर्गाः । अ॒पः । प्र । ई॒र॒य॒म् । सग॑रस्य । बु॒ध्नात् ।
यः । अक्षे॑णऽइव । च॒क्रिया॑ । शची॑भिः । विष्व॑क् । त॒स्तम्भ॑ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥
इन्द्राय । गिरः । अनिशितऽसर्गाः । अपः । प्र । ईरयम् । सगरस्य । बुध्नात् ।
यः । अक्षेणऽइव । चक्रिया । शचीभिः । विष्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥
índrāya ǀ gíraḥ ǀ ániśita-sargāḥ ǀ apáḥ ǀ prá ǀ īrayam ǀ ságarasya ǀ budhnā́t ǀ
yáḥ ǀ ákṣeṇa-iva ǀ cakríyā ǀ śácībhiḥ ǀ víṣvak ǀ tastámbha ǀ pṛthivī́m ǀ utá ǀ dyā́m ǁ
indrāya ǀ giraḥ ǀ aniśita-sargāḥ ǀ apaḥ ǀ pra ǀ īrayam ǀ sagarasya ǀ budhnāt ǀ
yaḥ ǀ akṣeṇa-iva ǀ cakriyā ǀ śacībhiḥ ǀ viṣvak ǀ tastambha ǀ pṛthivīm ǀ uta ǀ dyām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.089.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.14.04
- Maṇḍala · Anuvāka · Ṛk
- 10.07.118
- Devatā देवता
- 1-4, 6-18: Indra; 5: Indra, Soma
- Ṛṣi ऋषि
- Reṇu Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.