Ṛgveda · Maṇḍala 10 · Sūkta 89
Ṛk 10.89.6
Saṃhitā
न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नांतरि॑क्षं॒ नाद्र॑यः॒ सोमो॑ अक्षाः ।
यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥
न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः |
यद् अस्य मन्युर् अधिनीयमानः शृणाति वीऌउ रुजति स्थिराणि ||
ná yásya dyā́vāpṛthivī́ ná dhánva nā́ntárikṣam nā́drayaḥ sómo akṣāḥ ǀ
yádasya manyúradhinīyámānaḥ śṛṇā́ti vīḷú rujáti sthirā́ṇi ǁ
na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ |
yad asya manyur adhinīyamānaḥ śṛṇāti vīḷu rujati sthirāṇi ||
Padapāṭha
न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । न । धन्व॑ । न । अ॒न्तरि॑क्षम् । न । अद्र॑यः । सोमः॑ । अ॒क्षा॒रिति॑ ।
यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒ऽनी॒यमा॑नः । शृ॒णाति॑ । वी॒ळु । रु॒जति॑ । स्थि॒राणि॑ ॥
न । यस्य । द्यावापृथिवी इति । न । धन्व । न । अन्तरिक्षम् । न । अद्रयः । सोमः । अक्षारिति ।
यत् । अस्य । मन्युः । अधिऽनीयमानः । शृणाति । वीळु । रुजति । स्थिराणि ॥
ná ǀ yásya ǀ dyā́vāpṛthivī́ íti ǀ ná ǀ dhánva ǀ ná ǀ antárikṣam ǀ ná ǀ ádrayaḥ ǀ sómaḥ ǀ akṣāríti ǀ
yát ǀ asya ǀ manyúḥ ǀ adhi-nīyámānaḥ ǀ śṛṇā́ti ǀ vīḷú ǀ rujáti ǀ sthirā́ṇi ǁ
na ǀ yasya ǀ dyāvāpṛthivī iti ǀ na ǀ dhanva ǀ na ǀ antarikṣam ǀ na ǀ adrayaḥ ǀ somaḥ ǀ akṣāriti ǀ
yat ǀ asya ǀ manyuḥ ǀ adhi-nīyamānaḥ ǀ śṛṇāti ǀ vīḷu ǀ rujati ǀ sthirāṇi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.089.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.15.01
- Maṇḍala · Anuvāka · Ṛk
- 10.07.120
- Devatā देवता
- 1-4, 6-18: Indra; 5: Indra, Soma
- Ṛṣi ऋषि
- Reṇu Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.