Ṛgveda · Maṇḍala 10 · Sūkta 89
Ṛk 10.89.14
Saṃhitā
कर्हि॑ स्वि॒त्सा त॑ इंद्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् ।
मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शयं॑ते ॥
कर्हि स्वित् सा त इन्द्र चेत्यासद् अघस्य यद् भिनदो रक्ष एषत् |
मित्रक्रुवो यच् छसने न गावः पृथिव्या आपृग् अमुया शयन्ते ||
kárhi svitsā́ ta indra cetyā́sadaghásya yádbhinádo rákṣa éṣat ǀ
mitrakrúvo yácchásane ná gā́vaḥ pṛthivyā́ āpṛ́gamuyā́ śáyante ǁ
karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat |
mitrakruvo yac chasane na gāvaḥ pṛthivyā āpṛg amuyā śayante ||
Padapāṭha
कर्हि॑ । स्वि॒त् । सा । ते॒ । इ॒न्द्र॒ । चे॒त्या । अ॒स॒त् । अ॒घस्य॑ । यत् । भि॒नदः॑ । रक्षः॑ । आ॒ऽईष॑त् ।
मि॒त्र॒ऽक्रुवः॑ । यत् । शस॑ने । न । गावः॑ । पृ॒थि॒व्याः । आ॒ऽपृक् । अ॒मु॒या । शय॑न्ते ॥
कर्हि । स्वित् । सा । ते । इन्द्र । चेत्या । असत् । अघस्य । यत् । भिनदः । रक्षः । आऽईषत् ।
मित्रऽक्रुवः । यत् । शसने । न । गावः । पृथिव्याः । आऽपृक् । अमुया । शयन्ते ॥
kárhi ǀ svit ǀ sā́ ǀ te ǀ indra ǀ cetyā́ ǀ asat ǀ aghásya ǀ yát ǀ bhinádaḥ ǀ rákṣaḥ ǀ ā-ī́ṣat ǀ
mitra-krúvaḥ ǀ yát ǀ śásane ǀ ná ǀ gā́vaḥ ǀ pṛthivyā́ḥ ǀ ā-pṛ́k ǀ amuyā́ ǀ śáyante ǁ
karhi ǀ svit ǀ sā ǀ te ǀ indra ǀ cetyā ǀ asat ǀ aghasya ǀ yat ǀ bhinadaḥ ǀ rakṣaḥ ǀ ā-īṣat ǀ
mitra-kruvaḥ ǀ yat ǀ śasane ǀ na ǀ gāvaḥ ǀ pṛthivyāḥ ǀ ā-pṛk ǀ amuyā ǀ śayante ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.089.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.16.04
- Maṇḍala · Anuvāka · Ṛk
- 10.07.128
- Devatā देवता
- 1-4, 6-18: Indra; 5: Indra, Soma
- Ṛṣi ऋषि
- Reṇu Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.