Ṛgveda · Maṇḍala 10 · Sūkta 90

Ṛk 10.90.16

Puruṣa · Nārāyaṇa

The whole sūkta Link

Saṃhitā

य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचंत॒ यत्र॒ पूर्वे॑ सा॒ध्याः संति॑ दे॒वाः ॥

यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् |
ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ||

yajñéna yajñámayajanta devā́stā́ni dhármāṇi prathamā́nyāsan ǀ
té ha nā́kam mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ǁ

yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan |
te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||

Padapāṭha

य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् ।
ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥

यज्ञेन । यज्ञम् । अयजन्त । देवाः । तानि । धर्माणि । प्रथमानि । आसन् ।
ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ॥

yajñéna ǀ yajñám ǀ ayajanta ǀ devā́ḥ ǀ tā́ni ǀ dhármāṇi ǀ prathamā́ni ǀ āsan ǀ
té ǀ ha ǀ nā́kam ǀ mahimā́naḥ ǀ sacanta ǀ yátra ǀ pū́rve ǀ sādhyā́ḥ ǀ sánti ǀ devā́ḥ ǁ

yajñena ǀ yajñam ǀ ayajanta ǀ devāḥ ǀ tāni ǀ dharmāṇi ǀ prathamāni ǀ āsan ǀ
te ǀ ha ǀ nākam ǀ mahimānaḥ ǀ sacanta ǀ yatra ǀ pūrve ǀ sādhyāḥ ǀ santi ǀ devāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.090.16
Aṣṭaka · Adhyāya · Varga · Ṛk
8.4.19.06
Maṇḍala · Anuvāka · Ṛk
10.07.148
Devatā देवता
Puruṣa
Ṛṣi ऋषि
Nārāyaṇa
Chandas छन्दस्
Anuṣṭubh, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.90.16

Interpretations

Sāyaṇa

पूर्वं प्रपञ्चेनोक्तमर्थं संक्षिप्यात्र दर्शयति। देवाः प्रजापतिप्राणरूपा यज्ञेन यथोक्तेन मानसेन सङ्कल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिमयजन्त। पूजितवन्तः। तस्मात्पूजनात्तानि प्रसिद्धानि धर्माणि जगद्रूपविकारानां धारकाणि प्रथमानि मुख्यान्यासन्। एतावाता सृष्टिप्रतिपादकसूक्तभागार्थः सङ्गृहीतः। अथोपासनतत्फलानुवादकभागार्थः सङ्गृह्यते। यत्र यस्मिन्विराट् प्राप्तिरूपे नाके पूर्वे साध्याः पुरातना विराडुइपास्तिसाधका देवाः सन्ति तिष्ठन्ति तन्नाकं विराट्प्राप्तिरूपं स्वर्गं ते महिमानस्तदुपासका महात्मानः सचन्त। समवयन्ति। प्राप्नुवन्ति॥१७॥