Ṛgveda · Maṇḍala 10 · Sūkta 90
Ṛk 10.90.6
Saṃhitā
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
व॒सं॒तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥
यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत |
वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ||
yátpúruṣeṇa havíṣā devā́ yajñámátanvata ǀ
vasantó asyāsīdā́jyam grīṣmá idhmáḥ śaráddhavíḥ ǁ
yat puruṣeṇa haviṣā devā yajñam atanvata |
vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śarad dhaviḥ ||
Padapāṭha
यत् । पुरु॑षेण । ह॒विषा॑ । दे॒वाः । य॒ज्ञम् । अत॑न्वत ।
व॒स॒न्तः । अ॒स्य॒ । आ॒सी॒त् । आज्य॑म् । ग्री॒ष्मः । इ॒ध्मः । श॒रत् । ह॒विः ॥
यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत ।
वसन्तः । अस्य । आसीत् । आज्यम् । ग्रीष्मः । इध्मः । शरत् । हविः ॥
yát ǀ púruṣeṇa ǀ havíṣā ǀ devā́ḥ ǀ yajñám ǀ átanvata ǀ
vasantáḥ ǀ asya ǀ āsīt ǀ ā́jyam ǀ grīṣmáḥ ǀ idhmáḥ ǀ śarát ǀ havíḥ ǁ
yat ǀ puruṣeṇa ǀ haviṣā ǀ devāḥ ǀ yajñam ǀ atanvata ǀ
vasantaḥ ǀ asya ǀ āsīt ǀ ājyam ǀ grīṣmaḥ ǀ idhmaḥ ǀ śarat ǀ haviḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.090.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.18.01
- Maṇḍala · Anuvāka · Ṛk
- 10.07.138
- Devatā देवता
- Puruṣa
- Ṛṣi ऋषि
- Nārāyaṇa
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.