Ṛgveda · Maṇḍala 10 · Sūkta 90
Ṛk 10.90.5
Saṃhitā
तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
तस्माद् विराऌ अजायत विराजो अधि पूरुषः |
स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ||
tásmādvirā́ḷajāyata virā́jo ádhi pū́ruṣaḥ ǀ
sá jātó átyaricyata paścā́dbhū́mimátho puráḥ ǁ
tasmād virāḷ ajāyata virājo adhi pūruṣaḥ |
sa jāto aty aricyata paścād bhūmim atho puraḥ ||
Padapāṭha
तस्मा॑त् । वि॒राट् । अ॒जा॒य॒त॒ । वि॒ऽराजः॑ । अधि॑ । पुरु॑षः ।
सः । जा॒तः । अति॑ । अ॒रि॒च्य॒त॒ । प॒श्चात् । भूमि॑म् । अथो॒ इति॑ । पु॒रः ॥
तस्मात् । विराट् । अजायत । विऽराजः । अधि । पुरुषः ।
सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः ॥
tásmāt ǀ virā́ṭ ǀ ajāyata ǀ vi-rā́jaḥ ǀ ádhi ǀ púruṣaḥ ǀ
sáḥ ǀ jātáḥ ǀ áti ǀ aricyata ǀ paścā́t ǀ bhū́mim ǀ átho íti ǀ puráḥ ǁ
tasmāt ǀ virāṭ ǀ ajāyata ǀ vi-rājaḥ ǀ adhi ǀ puruṣaḥ ǀ
saḥ ǀ jātaḥ ǀ ati ǀ aricyata ǀ paścāt ǀ bhūmim ǀ atho iti ǀ puraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.090.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.17.05
- Maṇḍala · Anuvāka · Ṛk
- 10.07.137
- Devatā देवता
- Puruṣa
- Ṛṣi ऋषि
- Nārāyaṇa
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.