Ṛgveda · Maṇḍala 10 · Sūkta 146
Ṛk 10.146.5
Saṃhitā
न वा अ॑रण्या॒निर्हं॑त्य॒न्यश्चेन्नाभि॒गच्छ॑ति ।
स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥
न वा अरण्यानिर् हन्त्य् अन्यश् चेन् नाभिगच्छति |
स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ||
ná vā́ araṇyānírhantyanyáścénnā́bhigácchati ǀ
svādóḥ phálasya jagdhvā́ya yathākā́mam ní padyate ǁ
na vā araṇyānir hanty anyaś cen nābhigacchati |
svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate ||
Padapāṭha
न । वै । अ॒र॒ण्या॒निः । ह॒न्ति॒ । अ॒न्यः । च॒ । इत् । न । अ॒भि॒ऽगच्छ॑ति ।
स्वा॒दोः । फल॑स्य । ज॒ग्ध्वाय॑ । य॒था॒ऽकाम॑म् । नि । प॒द्य॒ते॒ ॥
न । वै । अरण्यानिः । हन्ति । अन्यः । च । इत् । न । अभिऽगच्छति ।
स्वादोः । फलस्य । जग्ध्वाय । यथाऽकामम् । नि । पद्यते ॥
ná ǀ vái ǀ araṇyāníḥ ǀ hanti ǀ anyáḥ ǀ ca ǀ ít ǀ ná ǀ abhi-gácchati ǀ
svādóḥ ǀ phálasya ǀ jagdhvā́ya ǀ yathā-kā́mam ǀ ní ǀ padyate ǁ
na ǀ vai ǀ araṇyāniḥ ǀ hanti ǀ anyaḥ ǀ ca ǀ it ǀ na ǀ abhi-gacchati ǀ
svādoḥ ǀ phalasya ǀ jagdhvāya ǀ yathā-kāmam ǀ ni ǀ padyate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.146.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.04.05
- Maṇḍala · Anuvāka · Ṛk
- 10.11.118
- Devatā देवता
- Araṇyānī
- Ṛṣi ऋषि
- Devamuni Airaṃmada
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.