Ṛgveda · Maṇḍala 10 · Sūkta 36

Ṛk 10.36.14

Aryaman, Ādityās, Indra, Uṣas, Divaḥ, Night, Pṛthivī, Mitra, Varuṇa, Viśvedevās · Divaḥ, Pṛthivī, Viśvedevās · Aditi, Viśvedevās · Aditi, Maruts, Viśvedevās · Iḷā, Indra, Bṛhaspati, Viśvedevās · Aśvins, Viśvedevās · Maruts, Viśvedevās · Viśvedevās · Agni, Mitra, Varuṇa, Viśvedevās, Savitṛ · Mitra, Varuṇa, Viśvedevās, Savitṛ · Viśvedevās, Savitṛ · Luśa Dhānāka

The whole sūkta Link

Saṃhitā

स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् ।
स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायुः॑ ॥

सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात् सविताधरात्तात् |
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घम् आयुः ||

savitā́ paścā́tātsavitā́ purástātsavitóttarā́ttātsavitā́dharā́ttāt ǀ
savitā́ naḥ suvatu sarvátātim savitā́ no rāsatām dīrghámā́yuḥ ǁ

savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt |
savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ ||

Padapāṭha

स॒वि॒ता । प॒श्चाता॑त् । स॒वि॒ता । पु॒रस्ता॑त् । स॒वि॒ता । उ॒त्त॒रात्ता॑त् । स॒वि॒ता । अ॒ध॒रात्ता॑त् ।
स॒वि॒ता । नः॒ । सु॒व॒तु॒ । स॒र्वऽता॑तिम् । स॒वि॒ता । नः॒ । रा॒स॒ता॒म् । दी॒र्घम् । आयुः॑ ॥

सविता । पश्चातात् । सविता । पुरस्तात् । सविता । उत्तरात्तात् । सविता । अधरात्तात् ।
सविता । नः । सुवतु । सर्वऽतातिम् । सविता । नः । रासताम् । दीर्घम् । आयुः ॥

savitā́ ǀ paścā́tāt ǀ savitā́ ǀ purástāt ǀ savitā́ ǀ uttarā́ttāt ǀ savitā́ ǀ adharā́ttāt ǀ
savitā́ ǀ naḥ ǀ suvatu ǀ sarvá-tātim ǀ savitā́ ǀ naḥ ǀ rāsatām ǀ dīrghám ǀ ā́yuḥ ǁ

savitā ǀ paścātāt ǀ savitā ǀ purastāt ǀ savitā ǀ uttarāttāt ǀ savitā ǀ adharāttāt ǀ
savitā ǀ naḥ ǀ suvatu ǀ sarva-tātim ǀ savitā ǀ naḥ ǀ rāsatām ǀ dīrgham ǀ āyuḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.036.14
Aṣṭaka · Adhyāya · Varga · Ṛk
7.8.11.04
Maṇḍala · Anuvāka · Ṛk
10.03.086
Devatā देवता
1: Aryaman, Ādityās, Indra, Uṣas, Divaḥ, Night, Pṛthivī, Mitra, Varuṇa, Viśvedevās; 2: Divaḥ, Pṛthivī, Viśvedevās; 3: Aditi, Viśvedevās; 4: Aditi, Maruts, Viśvedevās; 5: Iḷā, Indra, Bṛhaspati, Viśvedevās; 6: Aśvins, Viśvedevās; 7: Maruts, Viśvedevās; 8-11: Viśvedevās; 12: Agni, Mitra, Varuṇa, Viśvedevās, Savitṛ; 13: Mitra, Varuṇa, Viśvedevās, Savitṛ; 14: Viśvedevās, Savitṛ
Ṛṣi ऋषि
Luśa Dhānāka
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.36.14

Interpretations

Sāyaṇa

नमोमित्रस्येति द्वादशर्चमष्टमं सूक्तं अभितपानाम सूर्यपुत्रऋषिः इदमादीनि पंचसूक्ता- नि जागतानि अस्य सूक्तस्य दशमी त्रिष्टुप् सूर्योदेवता । तथा चानुक्रांतं—नमोद्वादश सौ- र्योभितपाः सौर्यं जागतं वै त्रिष्टुप् दशमीति । आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्यकांडे एतत्सू क्तं । सूत्रितंच—चित्रंदेवानां नमोमित्रस्येति । विषुवति निष्केवल्ये आद्यस्तृचोनुरूपः । सूत्रि- तंच—बिभ्राट्बृहत् पिबतुसोम्यंमधु नमोमित्रस्यवरुणस्यचक्षसइति स्तोत्रियानुरूपाविति । स्वपंतमभ्यस्तमयेसति रात्रिशेषं स्थित्वा प्रातर्येनसूर्यज्योतिषेत्यादिभिः सूर्यउपस्थेयः । सूत्रि- तंच—अव्याधितं चेत्स्वपंतमादित्योभ्यस्तमियाद्वाग्यतोनुपविशन् रात्रिशेषं भूत्वा येनसूर्य- ज्योतिषाबाधसेतमइति पंचभिरादित्यमुपतिष्ठेत । स्वपंतमभ्युदिते यस्यते विश्वेत्यादिभिस्च तसृभिः सूर्यउपस्थेयः । सूत्रितंच—अभ्युदियाच्चेदकर्मश्रांतमनभिरूपेण कर्मणा वाग्यइति समानमुत्तराभिश्चतसृभिरुपस्थानमिति । एकादशिनस्य सौर्यस्य पशोर्हविषोयाज्या । सूत्रितं- च—शन्नोभवचक्षसाशन्नोह्नाऽऽवायोभूषशुचिपा उपनइति । होत्राकाणांशकलाधाने यद्वोदेवा इत्येषा । विवाहेकन्यारोदनीये जीवंरुदुंतीत्येषा जप्या ।