Ṛgveda · Maṇḍala 10 · Sūkta 45
Ṛk 10.45.11
Saṃhitā
त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि ।
त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥
त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि |
त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ||
tvā́magne yájamānā ánu dyū́nvíśvā vásu dadhire vā́ryāṇi ǀ
tváyā sahá dráviṇamicchámānā vrajám gómantamuśíjo ví vavruḥ ǁ
tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi |
tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ ||
Padapāṭha
त्वाम् । अ॒ग्ने॒ । यज॑मानाः । अनु॑ । द्यून् । विश्वा॑ । वसु॑ । द॒धि॒रे॒ । वार्या॑णि ।
त्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥
त्वाम् । अग्ने । यजमानाः । अनु । द्यून् । विश्वा । वसु । दधिरे । वार्याणि ।
त्वया । सह । द्रविणम् । इच्छमानाः । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुः ॥
tvā́m ǀ agne ǀ yájamānāḥ ǀ ánu ǀ dyū́n ǀ víśvā ǀ vásu ǀ dadhire ǀ vā́ryāṇi ǀ
tváyā ǀ sahá ǀ dráviṇam ǀ icchámānāḥ ǀ vrajám ǀ gó-mantam ǀ uśíjaḥ ǀ ví ǀ vavruḥ ǁ
tvām ǀ agne ǀ yajamānāḥ ǀ anu ǀ dyūn ǀ viśvā ǀ vasu ǀ dadhire ǀ vāryāṇi ǀ
tvayā ǀ saha ǀ draviṇam ǀ icchamānāḥ ǀ vrajam ǀ go-mantam ǀ uśijaḥ ǀ vi ǀ vavruḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.045.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.29.05
- Maṇḍala · Anuvāka · Ṛk
- 10.04.033
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vatsaprī Bhālandana
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.