Ṛgveda · Maṇḍala 10 · Sūkta 45
Ṛk 10.45.8
Saṃhitā
दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेताः॑ ॥
दृशानो रुक्म उर्विया व्य् अद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः |
अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ||
dṛśānó rukmá urviyā́ vyádyauddurmárṣamā́yuḥ śriyé rucānáḥ ǀ
agníramṛ́to abhavadváyobhiryádenam dyáurjanáyatsurétāḥ ǁ
dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ |
agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ ||
Padapāṭha
दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒ऽमर्ष॑म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः ।
अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयः॑ऽभिः । यत् । ए॒न॒म् । द्यौः । ज॒नय॑त् । सु॒ऽरेताः॑ ॥
दृशानः । रुक्मः । उर्विया । वि । अद्यौत् । दुःऽमर्षम् । आयुः । श्रिये । रुचानः ।
अग्निः । अमृतः । अभवत् । वयःऽभिः । यत् । एनम् । द्यौः । जनयत् । सुऽरेताः ॥
dṛśānáḥ ǀ rukmáḥ ǀ urviyā́ ǀ ví ǀ adyaut ǀ duḥ-márṣam ǀ ā́yuḥ ǀ śriyé ǀ rucānáḥ ǀ
agníḥ ǀ amṛ́taḥ ǀ abhavat ǀ váyaḥ-bhiḥ ǀ yát ǀ enam ǀ dyáuḥ ǀ janáyat ǀ su-rétāḥ ǁ
dṛśānaḥ ǀ rukmaḥ ǀ urviyā ǀ vi ǀ adyaut ǀ duḥ-marṣam ǀ āyuḥ ǀ śriye ǀ rucānaḥ ǀ
agniḥ ǀ amṛtaḥ ǀ abhavat ǀ vayaḥ-bhiḥ ǀ yat ǀ enam ǀ dyauḥ ǀ janayat ǀ su-retāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.045.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.29.02
- Maṇḍala · Anuvāka · Ṛk
- 10.04.030
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vatsaprī Bhālandana
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.