Ṛgveda · Maṇḍala 10 · Sūkta 2
Ṛk 10.2.7
Saṃhitā
यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ ।
पंथा॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥
यं त्वा द्यावापृथिवी यं त्वापस् त्वष्टा यं त्वा सुजनिमा जजान |
पन्थाम् अनु प्रविद्वान् पितृयाणं द्युमद् अग्ने समिधानो वि भाहि ||
yám tvā dyā́vāpṛthivī́ yám tvā́pastváṣṭā yám tvā sujánimā jajā́na ǀ
pánthāmánu pravidvā́npitṛyā́ṇam dyumádagne samidhānó ví bhāhi ǁ
yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna |
panthām anu pravidvān pitṛyāṇaṃ dyumad agne samidhāno vi bhāhi ||
Padapāṭha
यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजनि॑मा । ज॒जान॑ ।
पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥
यम् । त्वा । द्यावापृथिवी इति । यम् । त्वा । आपः । त्वष्टा । यम् । त्वा । सुऽजनिमा । जजान ।
पन्थाम् । अनु । प्रऽविद्वान् । पितृऽयानम् । द्युऽमत् । अग्ने । सम्ऽइधानः । वि । भाहि ॥
yám ǀ tvā ǀ dyā́vāpṛthivī́ íti ǀ yám ǀ tvā ǀ ā́paḥ ǀ tváṣṭā ǀ yám ǀ tvā ǀ su-jánimā ǀ jajā́na ǀ
pánthām ǀ ánu ǀ pra-vidvā́n ǀ pitṛ-yā́nam ǀ dyu-mát ǀ agne ǀ sam-idhānáḥ ǀ ví ǀ bhāhi ǁ
yam ǀ tvā ǀ dyāvāpṛthivī iti ǀ yam ǀ tvā ǀ āpaḥ ǀ tvaṣṭā ǀ yam ǀ tvā ǀ su-janimā ǀ jajāna ǀ
panthām ǀ anu ǀ pra-vidvān ǀ pitṛ-yānam ǀ dyu-mat ǀ agne ǀ sam-idhānaḥ ǀ vi ǀ bhāhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.002.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.30.07
- Maṇḍala · Anuvāka · Ṛk
- 10.01.014
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.