Ṛgveda · Maṇḍala 10 · Sūkta 2
Ṛk 10.2.5
Saṃhitā
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥
यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः |
अग्निष् टद् धोता क्रतुविद् विजानन् यजिष्ठो देवां ऋतुशो यजाति ||
yátpākatrā́ mánasā dīnádakṣā ná yajñásya manvaté mártyāsaḥ ǀ
agníṣṭáddhótā kratuvídvijānányájiṣṭho devā́m̐ ṛtuśó yajāti ǁ
yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ |
agniṣ ṭad dhotā kratuvid vijānan yajiṣṭho devāṃ ṛtuśo yajāti ||
Padapāṭha
यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः ।
अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥
यत् । पाकऽत्रा । मनसा । दीनऽदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः ।
अग्निः । तत् । होता । क्रतुऽवित् । विऽजानन् । यजिष्ठः । देवान् । ऋतुऽशः । यजाति ॥
yát ǀ pāka-trā́ ǀ mánasā ǀ dīná-dakṣāḥ ǀ ná ǀ yajñásya ǀ manvaté ǀ mártyāsaḥ ǀ
agníḥ ǀ tát ǀ hótā ǀ kratu-vít ǀ vi-jānán ǀ yájiṣṭhaḥ ǀ devā́n ǀ ṛtu-śáḥ ǀ yajāti ǁ
yat ǀ pāka-trā ǀ manasā ǀ dīna-dakṣāḥ ǀ na ǀ yajñasya ǀ manvate ǀ martyāsaḥ ǀ
agniḥ ǀ tat ǀ hotā ǀ kratu-vit ǀ vi-jānan ǀ yajiṣṭhaḥ ǀ devān ǀ ṛtu-śaḥ ǀ yajāti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.002.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.30.05
- Maṇḍala · Anuvāka · Ṛk
- 10.01.012
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.