Ṛgveda · Maṇḍala 10 · Sūkta 2
Ṛk 10.2.2
Saṃhitā
वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मंधा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ ।
स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥
वेषि होत्रम् उत पोत्रं जनानाम् मन्धातासि द्रविणोदा ऋतावा |
स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्व् अग्निर् अर्हन् ||
véṣi hotrámutá potrám jánānām mandhātā́si draviṇodā́ ṛtā́vā ǀ
svā́hā vayám kṛṇávāmā havī́ṃṣi devó devā́nyajatvagnírárhan ǁ
veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā |
svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan ||
Padapāṭha
वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । जना॑नाम् । म॒न्धा॒ता । अ॒सि॒ । द्र॒वि॒णः॒ऽदाः । ऋ॒तऽवा॑ ।
स्वाहा॑ । व॒यम् । कृ॒णवा॑म । ह॒वींषि॑ । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥
वेषि । होत्रम् । उत । पोत्रम् । जनानाम् । मन्धाता । असि । द्रविणःऽदाः । ऋतऽवा ।
स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥
véṣi ǀ hotrám ǀ utá ǀ potrám ǀ jánānām ǀ mandhātā́ ǀ asi ǀ draviṇaḥ-dā́ḥ ǀ ṛtá-vā ǀ
svā́hā ǀ vayám ǀ kṛṇávāma ǀ havī́ṃṣi ǀ deváḥ ǀ devā́n ǀ yajatu ǀ agníḥ ǀ árhan ǁ
veṣi ǀ hotram ǀ uta ǀ potram ǀ janānām ǀ mandhātā ǀ asi ǀ draviṇaḥ-dāḥ ǀ ṛta-vā ǀ
svāhā ǀ vayam ǀ kṛṇavāma ǀ havīṃṣi ǀ devaḥ ǀ devān ǀ yajatu ǀ agniḥ ǀ arhan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.002.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.30.02
- Maṇḍala · Anuvāka · Ṛk
- 10.01.009
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.