Ṛgveda · Maṇḍala 10 · Sūkta 2
Ṛk 10.2.1
Saṃhitā
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥
पिप्रीहि देवां उशतो यविष्ठ विद्वां ऋतूंर् ऋतुपते यजेह |
ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वं होतॄणाम् अस्य् आयजिष्ठः ||
piprīhí devā́m̐ uśató yaviṣṭha vidvā́m̐ ṛtū́m̐rṛtupate yajehá ǀ
yé dáivyā ṛtvíjastébhiragne tvám hótṝṇāmasyā́yajiṣṭhaḥ ǁ
piprīhi devāṃ uśato yaviṣṭha vidvāṃ ṛtūṃr ṛtupate yajeha |
ye daivyā ṛtvijas tebhir agne tvaṃ hotṝṇām asy āyajiṣṭhaḥ ||
Padapāṭha
पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह ।
ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥
पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुऽपते । यज । इह ।
ये । दैव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥
piprīhí ǀ devā́n ǀ uśatáḥ ǀ yaviṣṭha ǀ vidvā́n ǀ ṛtū́n ǀ ṛtu-pate ǀ yaja ǀ ihá ǀ
yé ǀ dáivyāḥ ǀ ṛtvíjaḥ ǀ tébhiḥ ǀ agne ǀ tvám ǀ hótṝṇām ǀ asi ǀ ā́-yajiṣṭhaḥ ǁ
piprīhi ǀ devān ǀ uśataḥ ǀ yaviṣṭha ǀ vidvān ǀ ṛtūn ǀ ṛtu-pate ǀ yaja ǀ iha ǀ
ye ǀ daivyāḥ ǀ ṛtvijaḥ ǀ tebhiḥ ǀ agne ǀ tvam ǀ hotṝṇām ǀ asi ǀ ā-yajiṣṭhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.002.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.30.01
- Maṇḍala · Anuvāka · Ṛk
- 10.01.008
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.