Ṛgveda · Maṇḍala 10 · Sūkta 1

Ṛk 10.1.7

Agni · Trita Āptya

The whole sūkta Link

Saṃhitā

आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तंथ॑ ।
प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥

आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ |
प्र याह्य् अच्छोशतो यविष्ठाथा वह सहस्येह देवान् ||

ā́ hí dyā́vāpṛthivī́ agna ubhé sádā putró ná mātárā tatántha ǀ
prá yāhyácchośató yaviṣṭhā́thā́ vaha sahasyehá devā́n ǁ

ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha |
pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān ||

Padapāṭha

आ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरा॑ । त॒तन्थ॑ ।
प्र । या॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒वि॒ष्ठ॒ । अथ॑ । आ । व॒ह॒ । स॒ह॒स्य॒ । इ॒ह । दे॒वान् ॥

आ । हि । द्यावापृथिवी इति । अग्ने । उभे इति । सदा । पुत्रः । न । मातरा । ततन्थ ।
प्र । याहि । अच्छ । उशतः । यविष्ठ । अथ । आ । वह । सहस्य । इह । देवान् ॥

ā́ ǀ hí ǀ dyā́vāpṛthivī́ íti ǀ agne ǀ ubhé íti ǀ sádā ǀ putráḥ ǀ ná ǀ mātárā ǀ tatántha ǀ
prá ǀ yāhi ǀ áccha ǀ uśatáḥ ǀ yaviṣṭha ǀ átha ǀ ā́ ǀ vaha ǀ sahasya ǀ ihá ǀ devā́n ǁ

ā ǀ hi ǀ dyāvāpṛthivī iti ǀ agne ǀ ubhe iti ǀ sadā ǀ putraḥ ǀ na ǀ mātarā ǀ tatantha ǀ
pra ǀ yāhi ǀ accha ǀ uśataḥ ǀ yaviṣṭha ǀ atha ǀ ā ǀ vaha ǀ sahasya ǀ iha ǀ devān ǁ

References

Maṇḍala · Sūkta · Ṛk
10.001.07
Aṣṭaka · Adhyāya · Varga · Ṛk
7.5.29.07
Maṇḍala · Anuvāka · Ṛk
10.01.007
Devatā देवता
Agni
Ṛṣi ऋषि
Trita Āptya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.1.7

Interpretations

Sāyaṇa

पिप्रीहीति सप्तर्चं द्वितीयं सूक्तं ऋष्याद्याः पूर्ववत् । पिप्रीहीत्यनुक्रान्तं । प्रातरनुवा- काश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । दर्शपूणमासयोराद्या स्विष्टकृतोनुवाक्या । सूत्रितंच— अथ स्विष्टकृतः प्रिप्रीहिदेवाँ उशतोयविष्ठेत्यनुवाक्येति ।