Ṛgveda · Maṇḍala 10 · Sūkta 1
Ṛk 10.1.3
Saṃhitā
विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वांजा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीयं॑ ।
आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्चं॒त्यत्र॑ ॥
विष्णुर् इत्था परमम् अस्य विद्वाञ् जातो बृहन्न् अभि पाति तृतीयम् |
आसा यद् अस्य पयो अक्रत स्वं सचेतसो अभ्य् अर्चन्त्य् अत्र ||
víṣṇuritthā́ paramámasya vidvā́ñjātó bṛhánnabhí pāti tṛtī́yam ǀ
āsā́ yádasya páyo ákrata svám sácetaso abhyárcantyátra ǁ
viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam |
āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra ||
Padapāṭha
विष्णुः॑ । इ॒त्था । प॒र॒मम् । अ॒स्य॒ । वि॒द्वान् । जा॒तः । बृ॒हन् । अ॒भि । पा॒ति॒ । तृ॒तीय॑म् ।
आ॒सा । यत् । अ॒स्य॒ । पयः॑ । अक्र॑त । स्वम् । सऽचे॑तसः । अ॒भि । अ॒र्च॒न्ति॒ । अत्र॑ ॥
विष्णुः । इत्था । परमम् । अस्य । विद्वान् । जातः । बृहन् । अभि । पाति । तृतीयम् ।
आसा । यत् । अस्य । पयः । अक्रत । स्वम् । सऽचेतसः । अभि । अर्चन्ति । अत्र ॥
víṣṇuḥ ǀ itthā́ ǀ paramám ǀ asya ǀ vidvā́n ǀ jātáḥ ǀ bṛhán ǀ abhí ǀ pāti ǀ tṛtī́yam ǀ
āsā́ ǀ yát ǀ asya ǀ páyaḥ ǀ ákrata ǀ svám ǀ sá-cetasaḥ ǀ abhí ǀ arcanti ǀ átra ǁ
viṣṇuḥ ǀ itthā ǀ paramam ǀ asya ǀ vidvān ǀ jātaḥ ǀ bṛhan ǀ abhi ǀ pāti ǀ tṛtīyam ǀ
āsā ǀ yat ǀ asya ǀ payaḥ ǀ akrata ǀ svam ǀ sa-cetasaḥ ǀ abhi ǀ arcanti ǀ atra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.001.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.29.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.003
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.