Ṛgveda · Maṇḍala 10 · Sūkta 1
Ṛk 10.1.2
Saṃhitā
स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
चि॒त्रः शिशुः॒ परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥
स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु |
चित्रः शिशुः परि तमांस्य् अक्तून् प्र मातृभ्यो अधि कनिक्रदद् गाः ||
sá jātó gárbho asi ródasyorágne cā́rurvíbhṛta óṣadhīṣu ǀ
citráḥ śíśuḥ pári támāṃsyaktū́nprá mātṛ́bhyo ádhi kánikradadgāḥ ǁ
sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu |
citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ ||
Padapāṭha
सः । जा॒तः । गर्भः॑ । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारुः॑ । विऽभृ॑तः । ओष॑धीषु ।
चि॒त्रः । शिशुः॑ । परि॑ । तमां॑सि । अ॒क्तून् । प्र । मा॒तृऽभ्यः॑ । अधि॑ । कनि॑क्रदत् । गाः॒ ॥
सः । जातः । गर्भः । असि । रोदस्योः । अग्ने । चारुः । विऽभृतः । ओषधीषु ।
चित्रः । शिशुः । परि । तमांसि । अक्तून् । प्र । मातृऽभ्यः । अधि । कनिक्रदत् । गाः ॥
sáḥ ǀ jātáḥ ǀ gárbhaḥ ǀ asi ǀ ródasyoḥ ǀ ágne ǀ cā́ruḥ ǀ ví-bhṛtaḥ ǀ óṣadhīṣu ǀ
citráḥ ǀ śíśuḥ ǀ pári ǀ támāṃsi ǀ aktū́n ǀ prá ǀ mātṛ́-bhyaḥ ǀ ádhi ǀ kánikradat ǀ gāḥ ǁ
saḥ ǀ jātaḥ ǀ garbhaḥ ǀ asi ǀ rodasyoḥ ǀ agne ǀ cāruḥ ǀ vi-bhṛtaḥ ǀ oṣadhīṣu ǀ
citraḥ ǀ śiśuḥ ǀ pari ǀ tamāṃsi ǀ aktūn ǀ pra ǀ mātṛ-bhyaḥ ǀ adhi ǀ kanikradat ǀ gāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.001.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.29.02
- Maṇḍala · Anuvāka · Ṛk
- 10.01.002
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.