Ṛgveda · Maṇḍala 10 · Sūkta 1
Ṛk 10.1.5
Saṃhitā
होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुशं॑तं ।
प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नां ॥
होतारं चित्ररथम् अध्वरस्य यज्ञस्य-यज्ञस्य केतुं रुशन्तम् |
प्रत्यर्धिं देवस्य-देवस्य मह्ना श्रिया त्व् अग्निम् अतिथिं जनानाम् ||
hótāram citrárathamadhvarásya yajñásyayajñasya ketúm rúśantam ǀ
prátyardhim devásyadevasya mahnā́ śriyā́ tvágnímátithim jánānām ǁ
hotāraṃ citraratham adhvarasya yajñasya-yajñasya ketuṃ ruśantam |
pratyardhiṃ devasya-devasya mahnā śriyā tv agnim atithiṃ janānām ||
Padapāṭha
होता॑रम् । चि॒त्रऽर॑थम् । अ॒ध्व॒रस्य॑ । य॒ज्ञस्य॑ऽयज्ञस्य । के॒तुम् । रुश॑न्तम् ।
प्रति॑ऽअर्धिम् । दे॒वस्य॑ऽदेवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति॑थिम् । जना॑नाम् ॥
होतारम् । चित्रऽरथम् । अध्वरस्य । यज्ञस्यऽयज्ञस्य । केतुम् । रुशन्तम् ।
प्रतिऽअर्धिम् । देवस्यऽदेवस्य । मह्ना । श्रिया । त्वम् । अग्निम् । अतिथिम् । जनानाम् ॥
hótāram ǀ citrá-ratham ǀ adhvarásya ǀ yajñásya-yajñasya ǀ ketúm ǀ rúśantam ǀ
práti-ardhim ǀ devásya-devasya ǀ mahnā́ ǀ śriyā́ ǀ tvám ǀ agním ǀ átithim ǀ jánānām ǁ
hotāram ǀ citra-ratham ǀ adhvarasya ǀ yajñasya-yajñasya ǀ ketum ǀ ruśantam ǀ
prati-ardhim ǀ devasya-devasya ǀ mahnā ǀ śriyā ǀ tvam ǀ agnim ǀ atithim ǀ janānām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.001.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.29.05
- Maṇḍala · Anuvāka · Ṛk
- 10.01.005
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.