Ṛgveda · Maṇḍala 10 · Sūkta 111
Ṛk 10.111.8
Saṃhitā
दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिंद्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ ।
क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमंतः॑ ॥
दूरं किल प्रथमा जग्मुर् आसाम् इन्द्रस्य याः प्रसवे सस्रुर् आपः |
क्व स्विद् अग्रं क्व बुध्न आसाम् आपो मध्यं क्व वो नूनम् अन्तः ||
dūrám kíla prathamā́ jagmurāsāmíndrasya yā́ḥ prasavé sasrúrā́paḥ ǀ
kvá svidágram kvá budhná āsāmā́po mádhyam kvá vo nūnámántaḥ ǁ
dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ |
kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ ||
Padapāṭha
दू॒रम् । किल॑ । प्र॒थ॒माः । ज॒ग्मुः॒ । आ॒सा॒म् । इन्द्र॑स्य । याः । प्र॒ऽस॒वे । स॒स्रुः । आपः॑ ।
क्व॑ । स्वि॒त् । अग्र॑म् । क्व॑ । बु॒ध्नः । आ॒सा॒म् । आपः॑ । मध्य॑म् । क्व॑ । वः॒ । नू॒नम् । अन्तः॑ ॥
दूरम् । किल । प्रथमाः । जग्मुः । आसाम् । इन्द्रस्य । याः । प्रऽसवे । सस्रुः । आपः ।
क्व । स्वित् । अग्रम् । क्व । बुध्नः । आसाम् । आपः । मध्यम् । क्व । वः । नूनम् । अन्तः ॥
dūrám ǀ kíla ǀ prathamā́ḥ ǀ jagmuḥ ǀ āsām ǀ índrasya ǀ yā́ḥ ǀ pra-savé ǀ sasrúḥ ǀ ā́paḥ ǀ
kvá ǀ svit ǀ ágram ǀ kvá ǀ budhnáḥ ǀ āsām ǀ ā́paḥ ǀ mádhyam ǀ kvá ǀ vaḥ ǀ nūnám ǀ ántaḥ ǁ
dūram ǀ kila ǀ prathamāḥ ǀ jagmuḥ ǀ āsām ǀ indrasya ǀ yāḥ ǀ pra-save ǀ sasruḥ ǀ āpaḥ ǀ
kva ǀ svit ǀ agram ǀ kva ǀ budhnaḥ ǀ āsām ǀ āpaḥ ǀ madhyam ǀ kva ǀ vaḥ ǀ nūnam ǀ antaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.111.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.11.03
- Maṇḍala · Anuvāka · Ṛk
- 10.09.130
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aṣṭrādaṃṣṭra Vairūpa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.