Ṛgveda · Maṇḍala 10 · Sūkta 111
Ṛk 10.111.7
Saṃhitā
सचं॑त॒ यदु॒षसः॒ सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विंदन् ।
आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥
सचन्त यद् उषसः सूर्येण चित्राम् अस्य केतवो राम् अविन्दन् |
आ यन् नक्षत्रं ददृशे दिवो न पुनर् यतो नकिर् अद्धा नु वेद ||
sácanta yáduṣásaḥ sū́ryeṇa citrā́masya ketávo rā́mavindan ǀ
ā́ yánnákṣatram dádṛśe divó ná púnaryató nákiraddhā́ nú veda ǁ
sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan |
ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda ||
Padapāṭha
सच॑न्त । यत् । उ॒षसः॑ । सूर्ये॑ण । चि॒त्राम् । अ॒स्य॒ । के॒तवः॑ । राम् । अ॒वि॒न्द॒न् ।
आ । यत् । नक्ष॑त्रम् । ददृ॑शे । दि॒वः । न । पुनः॑ । य॒तः । नकिः॑ । अ॒द्धा । नु । वे॒द॒ ॥
सचन्त । यत् । उषसः । सूर्येण । चित्राम् । अस्य । केतवः । राम् । अविन्दन् ।
आ । यत् । नक्षत्रम् । ददृशे । दिवः । न । पुनः । यतः । नकिः । अद्धा । नु । वेद ॥
sácanta ǀ yát ǀ uṣásaḥ ǀ sū́ryeṇa ǀ citrā́m ǀ asya ǀ ketávaḥ ǀ rā́m ǀ avindan ǀ
ā́ ǀ yát ǀ nákṣatram ǀ dádṛśe ǀ diváḥ ǀ ná ǀ púnaḥ ǀ yatáḥ ǀ nákiḥ ǀ addhā́ ǀ nú ǀ veda ǁ
sacanta ǀ yat ǀ uṣasaḥ ǀ sūryeṇa ǀ citrām ǀ asya ǀ ketavaḥ ǀ rām ǀ avindan ǀ
ā ǀ yat ǀ nakṣatram ǀ dadṛśe ǀ divaḥ ǀ na ǀ punaḥ ǀ yataḥ ǀ nakiḥ ǀ addhā ǀ nu ǀ veda ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.111.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.11.02
- Maṇḍala · Anuvāka · Ṛk
- 10.09.129
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aṣṭrādaṃṣṭra Vairūpa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.