Ṛgveda · Maṇḍala 10 · Sūkta 111
Ṛk 10.111.9
Saṃhitā
सृ॒जः सिंधूँ॒रहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ ।
मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मंते॒ निति॑क्ताः ॥
सृजः सिन्धूंर् अहिना जग्रसानां आद् इद् एताः प्र विविज्रे जवेन |
मुमुक्षमाणा उत या मुमुच्रे ऽधेद् एता न रमन्ते नितिक्ताः ||
sṛjáḥ síndhūm̐ráhinā jagrasānā́m̐ ā́dídetā́ḥ prá vivijre javéna ǀ
múmukṣamāṇā utá yā́ mumucré’dhédetā́ ná ramante nítiktāḥ ǁ
sṛjaḥ sindhūṃr ahinā jagrasānāṃ ād id etāḥ pra vivijre javena |
mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ ||
Padapāṭha
सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् । आत् । इत् । ए॒ताः । प्र । वि॒वि॒ज्रे॒ । ज॒वेन॑ ।
मुमु॑क्षमाणाः । उ॒त । याः । मु॒मु॒च्रे । अध॑ । इत् । ए॒ताः । न । र॒म॒न्ते॒ । निऽति॑क्ताः ॥
सृजः । सिन्धून् । अहिना । जग्रसानान् । आत् । इत् । एताः । प्र । विविज्रे । जवेन ।
मुमुक्षमाणाः । उत । याः । मुमुच्रे । अध । इत् । एताः । न । रमन्ते । निऽतिक्ताः ॥
sṛjáḥ ǀ síndhūn ǀ áhinā ǀ jagrasānā́n ǀ ā́t ǀ ít ǀ etā́ḥ ǀ prá ǀ vivijre ǀ javéna ǀ
múmukṣamāṇāḥ ǀ utá ǀ yā́ḥ ǀ mumucré ǀ ádha ǀ ít ǀ etā́ḥ ǀ ná ǀ ramante ǀ ní-tiktāḥ ǁ
sṛjaḥ ǀ sindhūn ǀ ahinā ǀ jagrasānān ǀ āt ǀ it ǀ etāḥ ǀ pra ǀ vivijre ǀ javena ǀ
mumukṣamāṇāḥ ǀ uta ǀ yāḥ ǀ mumucre ǀ adha ǀ it ǀ etāḥ ǀ na ǀ ramante ǀ ni-tiktāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.111.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.11.04
- Maṇḍala · Anuvāka · Ṛk
- 10.09.131
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aṣṭrādaṃṣṭra Vairūpa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.