Ṛgveda · Maṇḍala 10 · Sūkta 111

Ṛk 10.111.3

Indra · Aṣṭrādaṃṣṭra Vairūpa

The whole sūkta Link

Saṃhitā

इंद्रः॒ किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य ।
आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥

इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत् सूर्याय |
आन् मेनां कृण्वन्न् अच्युतो भुवद् गोः पतिर् दिवः सनजा अप्रतीतः ||

índraḥ kíla śrútyā asyá veda sá hí jiṣṇúḥ pathikṛ́tsū́ryāya ǀ
ā́nménām kṛṇvánnácyuto bhúvadgóḥ pátirdiváḥ sanajā́ ápratītaḥ ǁ

indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya |
ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ ||

Padapāṭha

इन्द्रः॑ । किल॑ । श्रुत्यै॑ । अ॒स्य । वे॒द॒ । सः । हि । जि॒ष्णुः । प॒थि॒ऽकृत् । सूर्या॑य ।
आत् । मेना॑म् । कृ॒ण्वन् । अच्यु॑तः । भुव॑त् । गोः । पतिः॑ । दि॒वः । स॒न॒ऽजाः । अप्र॑तिऽइतः ॥

इन्द्रः । किल । श्रुत्यै । अस्य । वेद । सः । हि । जिष्णुः । पथिऽकृत् । सूर्याय ।
आत् । मेनाम् । कृण्वन् । अच्युतः । भुवत् । गोः । पतिः । दिवः । सनऽजाः । अप्रतिऽइतः ॥

índraḥ ǀ kíla ǀ śrútyai ǀ asyá ǀ veda ǀ sáḥ ǀ hí ǀ jiṣṇúḥ ǀ pathi-kṛ́t ǀ sū́ryāya ǀ
ā́t ǀ ménām ǀ kṛṇván ǀ ácyutaḥ ǀ bhúvat ǀ góḥ ǀ pátiḥ ǀ diváḥ ǀ sana-jā́ḥ ǀ áprati-itaḥ ǁ

indraḥ ǀ kila ǀ śrutyai ǀ asya ǀ veda ǀ saḥ ǀ hi ǀ jiṣṇuḥ ǀ pathi-kṛt ǀ sūryāya ǀ
āt ǀ menām ǀ kṛṇvan ǀ acyutaḥ ǀ bhuvat ǀ goḥ ǀ patiḥ ǀ divaḥ ǀ sana-jāḥ ǀ aprati-itaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.111.03
Aṣṭaka · Adhyāya · Varga · Ṛk
8.6.10.03
Maṇḍala · Anuvāka · Ṛk
10.09.125
Devatā देवता
Indra
Ṛṣi ऋषि
Aṣṭrādaṃṣṭra Vairūpa
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.111.3

Interpretations

Ralph T. H. Griffith

Indra knows, verily, how to hear our singing, for he, victorious, made a path for Sūrya. He made the Cow, and be became the Sovran of Heaven, primeval, matchless, and unshaken.