Ṛgveda · Maṇḍala 10 · Sūkta 190

Ṛk 10.190.3

Bhāvavṛttam · Aghamarṣaṇa Mādhucchandasa

The whole sūkta Link

Saṃhitā

सू॒र्या॒चं॒द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चां॒तरि॑क्ष॒मथो॒ स्वः॑ ॥

सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् |
दिवं च पृथिवीं चान्तरिक्षम् अथो स्वः ||

sūryācandramásau dhātā́ yathāpūrvámakalpayat ǀ
dívam ca pṛthivī́m cāntárikṣamátho sváḥ ǁ

sūryācandramasau dhātā yathāpūrvam akalpayat |
divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ ||

Padapāṭha

सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् ।
दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥

सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् ।
दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो इति । स्वः ॥

sūryācandramásau ǀ dhātā́ ǀ yathāpūrvám ǀ akalpayat ǀ
dívam ǀ ca ǀ pṛthivī́m ǀ ca ǀ antárikṣam ǀ átho íti ǀ sváḥ ǁ

sūryācandramasau ǀ dhātā ǀ yathāpūrvam ǀ akalpayat ǀ
divam ǀ ca ǀ pṛthivīm ǀ ca ǀ antarikṣam ǀ atho iti ǀ svaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.190.03
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.48.03
Maṇḍala · Anuvāka · Ṛk
10.12.165
Devatā देवता
Bhāvavṛttam
Ṛṣi ऋषि
Aghamarṣaṇa Mādhucchandasa
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.190.3

Interpretations

Sāyaṇa

सूर्याचन्द्रमसौ कालस्य ध्वजभूतौ दिवम् च पृथिवीं चान्तरिक्शम् च इत्थं त्रिभूवनं स्वः। स्वः शब्दः सुखवाची। दिवो विशेषनम्। सुखरूपां दिवम्। तदेतत्सर्वं धाता विधाता यथा पूर्वं पूर्विस्मिन्कालेऽकल्पयत् सृष्टवान् तथैवागामिन्यपि कल्पे कल्पयिश्यतीत्यर्थः॥३॥