Ṛgveda · Maṇḍala 10 · Sūkta 182

Ṛk 10.182.3

Bṛhaspati · Tapurmūrdhan Bārhaspatya

The whole sūkta Link

Saṃhitā

तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विषः॒ शर॑वे॒ हंत॒वा उ॑ ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥

तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ |
क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ||

tápurmūrdhā tapatu rakṣáso yé brahmadvíṣaḥ śárave hántavā́ u ǀ
kṣipádáśastimápa durmatím hannáthā karadyájamānāya śám yoḥ ǁ

tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u |
kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||

Padapāṭha

तपुः॑ऽमूर्धा । त॒प॒तु॒ । र॒क्षसः॑ । ये । ब्र॒ह्म॒ऽद्विषः॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥

तपुःऽमूर्धा । तपतु । रक्षसः । ये । ब्रह्मऽद्विषः । शरवे । हन्तवै । ऊं इति ।
क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥

tápuḥ-mūrdhā ǀ tapatu ǀ rakṣásaḥ ǀ yé ǀ brahma-dvíṣaḥ ǀ śárave ǀ hántavái ǀ ūṃ íti ǀ
kṣipát ǀ áśastim ǀ ápa ǀ duḥ-matím ǀ han ǀ átha ǀ karat ǀ yájamānāya ǀ śám ǀ yóḥ ǁ

tapuḥ-mūrdhā ǀ tapatu ǀ rakṣasaḥ ǀ ye ǀ brahma-dviṣaḥ ǀ śarave ǀ hantavai ǀ ūṃ iti ǀ
kṣipat ǀ aśastim ǀ apa ǀ duḥ-matim ǀ han ǀ atha ǀ karat ǀ yajamānāya ǀ śam ǀ yoḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.182.03
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.40.03
Maṇḍala · Anuvāka · Ṛk
10.12.139
Devatā देवता
Bṛhaspati
Ṛṣi ऋषि
Tapurmūrdhan Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.182.3

Interpretations

Sāyaṇa

तपुर्मूर्धा तापकशिरस्को बृहस्पती रक्षसो ये ब्रह्मद्विषो ब्राह्मनद्वेष्टारो राक्षसाः तान्राक्षसांस्तपतु। तापयतु। दहत्वित्यर्थः। किमर्थं। शरवे शरुम् हिंसकं रक्षसामधिपतिं हन्तवै हन्तुम्। अनुचरान्पूर्वं नाशयतु पश्चादेनमपि नाशयत्वित्यर्थः। शॄ हिंसायामित्यस्माच्छॄस्वृस्निहीत्यादिनोप्रत्ययः। निदित्यनुवृत्तेराद्युदात्तत्वम्। क्रियाग्रहनं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी। हन्तेस्तुमर्थे सेसेनिति तवैप्रत्ययः। अन्तश्च तवै युगपदित्याद्यन्तयोर्युगपदुदात्तत्वम्। उशब्दः पूरकः॥३॥