Ṛgveda · Maṇḍala 10 · Sūkta 182
Ṛk 10.182.2
Saṃhitā
नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
नराशंसो नो ऽवतु प्रयाजे शं नो अस्त्व् अनुयाजो हवेषु |
क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ||
nárāśáṃso no’vatu prayājé śám no astvanuyājó háveṣu ǀ
kṣipádáśastimápa durmatím hannáthā karadyájamānāya śám yoḥ ǁ
narāśaṃso no 'vatu prayāje śaṃ no astv anuyājo haveṣu |
kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||
Padapāṭha
नरा॒शंसः॑ । नः॒ । अ॒व॒तु॒ । प्र॒ऽया॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒ऽया॒जः । हवे॑षु ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥
नराशंसः । नः । अवतु । प्रऽयाजे । शम् । नः । अस्तु । अनुऽयाजः । हवेषु ।
क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥
nárāśáṃsaḥ ǀ naḥ ǀ avatu ǀ pra-yājé ǀ śám ǀ naḥ ǀ astu ǀ anu-yājáḥ ǀ háveṣu ǀ
kṣipát ǀ áśastim ǀ ápa ǀ duḥ-matím ǀ han ǀ átha ǀ karat ǀ yájamānāya ǀ śám ǀ yóḥ ǁ
narāśaṃsaḥ ǀ naḥ ǀ avatu ǀ pra-yāje ǀ śam ǀ naḥ ǀ astu ǀ anu-yājaḥ ǀ haveṣu ǀ
kṣipat ǀ aśastim ǀ apa ǀ duḥ-matim ǀ han ǀ atha ǀ karat ǀ yajamānāya ǀ śam ǀ yoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.182.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.40.02
- Maṇḍala · Anuvāka · Ṛk
- 10.12.138
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Tapurmūrdhan Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.