Ṛgveda · Maṇḍala 10 · Sūkta 14

Ṛk 10.14.16

Yama · Aṅgirasas, Bṛhaspati, Yama · Aṅgirasas, Yama · Aṅgirasas · Yama, Varuṇa · Yama, 2 Sārameyas · Yama Vaivasvata

The whole sūkta Link

Saṃhitā

त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् ।
त्रि॒ष्टुब्गा॑य॒त्री छंदां॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥

त्रिकद्रुकेभिः पतति षऌ उर्वीर् एकम् इद् बृहत् |
त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आहिता ||

tríkadrukebhiḥ patati ṣáḷurvī́rékamídbṛhát ǀ
triṣṭúbgāyatrī́ chándāṃsi sárvā tā́ yamá ā́hitā ǁ

trikadrukebhiḥ patati ṣaḷ urvīr ekam id bṛhat |
triṣṭub gāyatrī chandāṃsi sarvā tā yama āhitā ||

Padapāṭha

त्रिऽक॑द्रुकेभिः । प॒त॒ति॒ । षट् । उ॒र्वीः । एक॑म् । इत् । बृ॒हत् ।
त्रि॒ऽस्तुप् । गा॒य॒त्री । छन्दां॑सि । सर्वा॑ । ता । य॒मे । आऽहि॑ता ॥

त्रिऽकद्रुकेभिः । पतति । षट् । उर्वीः । एकम् । इत् । बृहत् ।
त्रिऽस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आऽहिता ॥

trí-kadrukebhiḥ ǀ patati ǀ ṣáṭ ǀ urvī́ḥ ǀ ékam ǀ ít ǀ bṛhát ǀ
tri-stúp ǀ gāyatrī́ ǀ chándāṃsi ǀ sárvā ǀ tā́ ǀ yamé ǀ ā́-hitā ǁ

tri-kadrukebhiḥ ǀ patati ǀ ṣaṭ ǀ urvīḥ ǀ ekam ǀ it ǀ bṛhat ǀ
tri-stup ǀ gāyatrī ǀ chandāṃsi ǀ sarvā ǀ tā ǀ yame ǀ ā-hitā ǁ

References

Maṇḍala · Sūkta · Ṛk
10.014.16
Aṣṭaka · Adhyāya · Varga · Ṛk
7.6.16.06
Maṇḍala · Anuvāka · Ṛk
10.01.120
Devatā देवता
1, 2, 8, 9, 13-16: Yama; 3: Aṅgirasas, Bṛhaspati, Yama; 4, 5: Aṅgirasas, Yama; 6: Aṅgirasas; 7: Yama, Varuṇa; 10-12: Yama, 2 Sārameyas
Ṛṣi ऋषि
Yama Vaivasvata
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh, Bṛhatī
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.14.16

Interpretations

Sāyaṇa

उदीरतामिति चतुर्दशर्चं पंचदशं सूक्तम् । अत्रानुक्रम्यते—उदीरतां षळूना शंखः पित्र्यं जगत्येकादशीति । यामायनाः परे पंचेति वचनात् यमपुत्रः शंखाख्यऋषिः अग्निष्वात्ता- इत्येकादशी जगती शिष्टास्त्रिष्टुभः पितरोदेवता । गतः सूक्तविनियोगः । अष्टकायां उदीर- तामवरइत्याद्याअष्टर्चहोमार्थाः । सूत्रितंच—उदीरतामवरउत्परासइत्यष्टाभिर्हुत्वेति महापितृ यज्ञे पितरः सोमवन्तइत्यस्यानुवाक्या उदीरतामित्येषा । सूत्रितंच—पितरोग्निष्वात्तायमउ दीरतामवरउत्परासइति । आग्निमारुतेप्येषा धाय्या । सूत्रितंच—मातलीकव्यैर्यमोअंगिरो- भिरुदीरतामवरउत्परासइति ।