Ṛgveda · Maṇḍala 10 · Sūkta 15
Ṛk 10.15.1
Saṃhitā
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥
उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः |
असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ||
údīratāmávara útpárāsa únmadhyamā́ḥ pitáraḥ somyā́saḥ ǀ
ásum yá īyúravṛkā́ ṛtajñā́sté no’vantu pitáro háveṣu ǁ
ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ |
asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu ||
Padapāṭha
उत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑सः । उत् । म॒ध्य॒माः । पि॒तरः॑ । सो॒म्यासः॑ ।
असु॑म् । ये । ई॒युः । अ॒वृ॒काः । ऋ॒त॒ऽज्ञाः । ते । नः॒ । अ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥
उत् । ईरताम् । अवरे । उत् । परासः । उत् । मध्यमाः । पितरः । सोम्यासः ।
असुम् । ये । ईयुः । अवृकाः । ऋतऽज्ञाः । ते । नः । अवन्तु । पितरः । हवेषु ॥
út ǀ īratām ǀ ávare ǀ út ǀ párāsaḥ ǀ út ǀ madhyamā́ḥ ǀ pitáraḥ ǀ somyā́saḥ ǀ
ásum ǀ yé ǀ īyúḥ ǀ avṛkā́ḥ ǀ ṛta-jñā́ḥ ǀ té ǀ naḥ ǀ avantu ǀ pitáraḥ ǀ háveṣu ǁ
ut ǀ īratām ǀ avare ǀ ut ǀ parāsaḥ ǀ ut ǀ madhyamāḥ ǀ pitaraḥ ǀ somyāsaḥ ǀ
asum ǀ ye ǀ īyuḥ ǀ avṛkāḥ ǀ ṛta-jñāḥ ǀ te ǀ naḥ ǀ avantu ǀ pitaraḥ ǀ haveṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.015.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.17.01
- Maṇḍala · Anuvāka · Ṛk
- 10.01.121
- Devatā देवता
- Pitaraḥ
- Ṛṣi ऋषि
- Śaṅkha Yāmāyana
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.