Ṛgveda · Maṇḍala 10 · Sūkta 15
Ṛk 10.15.3
Saṃhitā
आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ ।
ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भजं॑त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥
आहम् पितॄन् सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः |
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ||
ā́hám pitṝ́ntsuvidátrām̐ avitsi nápātam ca vikrámaṇam ca víṣṇoḥ ǀ
barhiṣádo yé svadháyā sutásya bhájanta pitvástá ihā́gamiṣṭhāḥ ǁ
āham pitṝn suvidatrāṃ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ |
barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ ||
Padapāṭha
आ । अ॒हम् । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । अ॒वि॒त्सि॒ । नपा॑तम् । च॒ । वि॒ऽक्रम॑णम् । च॒ । विष्णोः॑ ।
ब॒र्हि॒ऽसदः॑ । ये । स्व॒धया॑ । सु॒तस्य॑ । भज॑न्त । पि॒त्वः । ते । इ॒ह । आऽग॑मिष्ठाः ॥
आ । अहम् । पितॄन् । सुऽविदत्रान् । अवित्सि । नपातम् । च । विऽक्रमणम् । च । विष्णोः ।
बर्हिऽसदः । ये । स्वधया । सुतस्य । भजन्त । पित्वः । ते । इह । आऽगमिष्ठाः ॥
ā́ ǀ ahám ǀ pitṝ́n ǀ su-vidátrān ǀ avitsi ǀ nápātam ǀ ca ǀ vi-krámaṇam ǀ ca ǀ víṣṇoḥ ǀ
barhi-sádaḥ ǀ yé ǀ svadháyā ǀ sutásya ǀ bhájanta ǀ pitváḥ ǀ té ǀ ihá ǀ ā́-gamiṣṭhāḥ ǁ
ā ǀ aham ǀ pitṝn ǀ su-vidatrān ǀ avitsi ǀ napātam ǀ ca ǀ vi-kramaṇam ǀ ca ǀ viṣṇoḥ ǀ
barhi-sadaḥ ǀ ye ǀ svadhayā ǀ sutasya ǀ bhajanta ǀ pitvaḥ ǀ te ǀ iha ǀ ā-gamiṣṭhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.015.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.17.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.123
- Devatā देवता
- Pitaraḥ
- Ṛṣi ऋषि
- Śaṅkha Yāmāyana
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.