Ṛgveda · Maṇḍala 10 · Sūkta 32
Ṛk 10.32.7
Saṃhitā
अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः ।
ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं विं॑दत्यंज॒सीनां॑ ॥
अक्षेत्रवित् क्षेत्रविदं ह्य् अप्राट् स प्रैति क्षेत्रविदानुशिष्टः |
एतद् वै भद्रम् अनुशासनस्योत स्रुतिं विन्दत्य् अञ्जसीनाम् ||
ákṣetravitkṣetravídam hyáprāṭ sá práiti kṣetravídā́nuśiṣṭaḥ ǀ
etádvái bhadrámanuśā́sanasyotá srutím vindatyañjasī́nām ǁ
akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ |
etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām ||
Padapāṭha
अक्षे॑त्रऽवित् । क्षे॒त्र॒ऽविद॑म् । हि । अप्रा॑ट् । सः । प्र । ए॒ति॒ । क्षे॒त्र॒ऽविदा॑ । अनु॑ऽशिष्टः ।
ए॒तत् । वै । भ॒द्रम् । अ॒नु॒ऽशास॑नस्य । उ॒त । स्रु॒तिम् । वि॒न्द॒ति॒ । अ॒ञ्ज॒सीना॑म् ॥
अक्षेत्रऽवित् । क्षेत्रऽविदम् । हि । अप्राट् । सः । प्र । एति । क्षेत्रऽविदा । अनुऽशिष्टः ।
एतत् । वै । भद्रम् । अनुऽशासनस्य । उत । स्रुतिम् । विन्दति । अञ्जसीनाम् ॥
ákṣetra-vit ǀ kṣetra-vídam ǀ hí ǀ áprāṭ ǀ sáḥ ǀ prá ǀ eti ǀ kṣetra-vídā ǀ ánu-śiṣṭaḥ ǀ
etát ǀ vái ǀ bhadrám ǀ anu-śā́sanasya ǀ utá ǀ srutím ǀ vindati ǀ añjasī́nām ǁ
akṣetra-vit ǀ kṣetra-vidam ǀ hi ǀ aprāṭ ǀ saḥ ǀ pra ǀ eti ǀ kṣetra-vidā ǀ anu-śiṣṭaḥ ǀ
etat ǀ vai ǀ bhadram ǀ anu-śāsanasya ǀ uta ǀ srutim ǀ vindati ǀ añjasīnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.032.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.30.02
- Maṇḍala · Anuvāka · Ṛk
- 10.03.033
- Devatā देवता
- 1-5, 7-9: Indra; 6: Indra, Agni
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.