Ṛgveda · Maṇḍala 10 · Sūkta 32
Ṛk 10.32.4
Saṃhitā
तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास॑न्वह॒तुं न धे॒नवः॑ ।
मा॒ता यन्मंतु॑र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जनः॑ ॥
तद् इत् सधस्थम् अभि चारु दीधय गावो यच् छासन् वहतुं न धेनवः |
माता यन् मन्तुर् यूथस्य पूर्व्याभि वाणस्य सप्तधातुर् इज् जनः ||
tádítsadhásthamabhí cā́ru dīdhaya gā́vo yácchā́sanvahatúm ná dhenávaḥ ǀ
mātā́ yánmánturyūthásya pūrvyā́bhí vāṇásya saptádhāturíjjánaḥ ǁ
tad it sadhastham abhi cāru dīdhaya gāvo yac chāsan vahatuṃ na dhenavaḥ |
mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ ||
Padapāṭha
तत् । इत् । स॒धऽस्थ॑म् । अ॒भि । चारु॑ । दी॒ध॒य॒ । गावः॑ । यत् । शास॑न् । व॒ह॒तुम् । न । धे॒नवः॑ ।
मा॒ता । यत् । मन्तुः॑ । यू॒थस्य॑ । पू॒र्व्या । अ॒भि । वा॒णस्य॑ । स॒प्तऽधा॑तुः । इत् । जनः॑ ॥
तत् । इत् । सधऽस्थम् । अभि । चारु । दीधय । गावः । यत् । शासन् । वहतुम् । न । धेनवः ।
माता । यत् । मन्तुः । यूथस्य । पूर्व्या । अभि । वाणस्य । सप्तऽधातुः । इत् । जनः ॥
tát ǀ ít ǀ sadhá-stham ǀ abhí ǀ cā́ru ǀ dīdhaya ǀ gā́vaḥ ǀ yát ǀ śā́san ǀ vahatúm ǀ ná ǀ dhenávaḥ ǀ
mātā́ ǀ yát ǀ mántuḥ ǀ yūthásya ǀ pūrvyā́ ǀ abhí ǀ vāṇásya ǀ saptá-dhātuḥ ǀ ít ǀ jánaḥ ǁ
tat ǀ it ǀ sadha-stham ǀ abhi ǀ cāru ǀ dīdhaya ǀ gāvaḥ ǀ yat ǀ śāsan ǀ vahatum ǀ na ǀ dhenavaḥ ǀ
mātā ǀ yat ǀ mantuḥ ǀ yūthasya ǀ pūrvyā ǀ abhi ǀ vāṇasya ǀ sapta-dhātuḥ ǀ it ǀ janaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.032.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.29.04
- Maṇḍala · Anuvāka · Ṛk
- 10.03.030
- Devatā देवता
- 1-5, 7-9: Indra; 6: Indra, Agni
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.