Ṛgveda · Maṇḍala 10 · Sūkta 144

Ṛk 10.144.6

Indra · Suparṇa Tārkṣyaputra Or Ūrdhvakṛśana Yāmāyana

The whole sūkta Link

Saṃhitā

ए॒वा तदिंद्र॒ इंदु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ ।
क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥

एवा तद् इन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः |
क्रत्वा वयो वि तार्य् आयुः सुक्रतो क्रत्वायम् अस्मद् आ सुतः ||

evā́ tádíndra índunā devéṣu ciddhārayāte máhi tyájaḥ ǀ
krátvā váyo ví tāryā́yuḥ sukrato krátvāyámasmádā́ sutáḥ ǁ

evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ |
kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ ||

Padapāṭha

ए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ ।
क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥

एव । तत् । इन्द्रः । इन्दुना । देवेषु । चित् । धारयाते । महि । त्यजः ।
क्रत्वा । वयः । वि । तारि । आयुः । सुक्रतो इति सुऽक्रतो । क्रत्वा । अयम् । अस्मत् । आ । सुतः ॥

evá ǀ tát ǀ índraḥ ǀ índunā ǀ devéṣu ǀ cit ǀ dhārayāte ǀ máhi ǀ tyájaḥ ǀ
krátvā ǀ váyaḥ ǀ ví ǀ tāri ǀ ā́yuḥ ǀ sukrato íti su-krato ǀ krátvā ǀ ayám ǀ asmát ǀ ā́ ǀ sutáḥ ǁ

eva ǀ tat ǀ indraḥ ǀ indunā ǀ deveṣu ǀ cit ǀ dhārayāte ǀ mahi ǀ tyajaḥ ǀ
kratvā ǀ vayaḥ ǀ vi ǀ tāri ǀ āyuḥ ǀ sukrato iti su-krato ǀ kratvā ǀ ayam ǀ asmat ǀ ā ǀ sutaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.144.06
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.02.06
Maṇḍala · Anuvāka · Ṛk
10.11.107
Devatā देवता
Indra
Ṛṣi ऋषि
Suparṇa Tārkṣyaputra Or Ūrdhvakṛśana Yāmāyana
Chandas छन्दस्
Gāyatrī, Bṛhatī, Satobṛhatī, Viṣṭārapaṅkti
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.144.6

Interpretations

Sāyaṇa

एवैवमुक्तेन प्रकारेण तत्तेनेन्दुना सोमेन तृप्यन्निन्द्रो देवेषु चिद्देवेष्वस्मासु च महि महत्यजस्तेजो दुःखस्य वर्जयितृ रक्षनं वा धारयाते। धारयति। शिष्टः प्रत्यक्षकृतः। हे सुक्रतो शोभनकर्मन्निन्द्र क्रत्वा क्रतुनास्माभिरनुष्ठितेन कर्मणा प्रीतेन त्वया वयोऽन्नमायुर्जीवनं च वि तारि। अस्मभ्यम् प्रादायि। योऽयमिन्दुः क्रत्वा कर्मणा प्रज्ञानेन वास्मदस्माभिरा सुतोऽभिषुतः। यद्वा। अस्मदस्मत्तस्त्वदाभिमुख्येन सुतः प्रेरितः तेनेन्दुनेत्यन्वयः॥६॥