Ṛgveda · Maṇḍala 10 · Sūkta 81
Ṛk 10.81.4
Saṃhitā
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥
किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः |
मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ||
kím svidvánam ká u sá vṛkṣá āsa yáto dyā́vāpṛthivī́ niṣṭatakṣúḥ ǀ
mánīṣiṇo mánasā pṛcchátédu tádyádadhyátiṣṭhadbhúvanāni dhāráyan ǁ
kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ |
manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan ||
Padapāṭha
किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।
मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊं॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥
किम् । स्वित् । वनम् । कः । ऊं इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः ।
मनीषिणः । मनसा । पृच्छत । इत् । ऊं इति । तत् । यत् । अधिऽअतिष्ठत् । भुवनानि । धारयन् ॥
kím ǀ svit ǀ vánam ǀ káḥ ǀ ūṃ íti ǀ sáḥ ǀ vṛkṣáḥ ǀ āsa ǀ yátaḥ ǀ dyā́vāpṛthivī́ íti ǀ niḥ-tatakṣúḥ ǀ
mánīṣiṇaḥ ǀ mánasā ǀ pṛccháta ǀ ít ǀ ūṃ íti ǀ tát ǀ yát ǀ adhi-átiṣṭhat ǀ bhúvanāni ǀ dhāráyan ǁ
kim ǀ svit ǀ vanam ǀ kaḥ ǀ ūṃ iti ǀ saḥ ǀ vṛkṣaḥ ǀ āsa ǀ yataḥ ǀ dyāvāpṛthivī iti ǀ niḥ-tatakṣuḥ ǀ
manīṣiṇaḥ ǀ manasā ǀ pṛcchata ǀ it ǀ ūṃ iti ǀ tat ǀ yat ǀ adhi-atiṣṭhat ǀ bhuvanāni ǀ dhārayan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.081.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.16.04
- Maṇḍala · Anuvāka · Ṛk
- 10.06.111
- Devatā देवता
- Viśvakarman
- Ṛṣi ऋषि
- Viśvakarman Bhauvana
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.