Ṛgveda · Maṇḍala 10 · Sūkta 81

Ṛk 10.81.7

Viśvakarman · Viśvakarman Bhauvana

The whole sūkta Link

Saṃhitā

वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वशं॑भू॒रव॑से सा॒धुक॑र्मा ॥

वाचस् पतिं विश्वकर्माणम् ऊतये मनोजुवं वाजे अद्या हुवेम |
स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ||

vācáspátim viśvákarmāṇamūtáye manojúvam vā́je adyā́ huvema ǀ
sá no víśvāni hávanāni joṣadviśváśambhūrávase sādhúkarmā ǁ

vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema |
sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā ||

Padapāṭha

वा॒चः । पति॑म् । वि॒श्वऽक॑र्माणम् । ऊ॒तये॑ । म॒नः॒ऽजुव॑म् । वाजे॑ । अ॒द्य । हु॒वे॒म॒ ।
सः । नः॒ । विश्वा॑नि । हव॑नानि । जो॒ष॒त् । वि॒श्वऽश॑म्भूः । अव॑से । सा॒धुऽक॑र्मा ॥

वाचः । पतिम् । विश्वऽकर्माणम् । ऊतये । मनःऽजुवम् । वाजे । अद्य । हुवेम ।
सः । नः । विश्वानि । हवनानि । जोषत् । विश्वऽशम्भूः । अवसे । साधुऽकर्मा ॥

vācáḥ ǀ pátim ǀ viśvá-karmāṇam ǀ ūtáye ǀ manaḥ-júvam ǀ vā́je ǀ adyá ǀ huvema ǀ
sáḥ ǀ naḥ ǀ víśvāni ǀ hávanāni ǀ joṣat ǀ viśvá-śambhūḥ ǀ ávase ǀ sādhú-karmā ǁ

vācaḥ ǀ patim ǀ viśva-karmāṇam ǀ ūtaye ǀ manaḥ-juvam ǀ vāje ǀ adya ǀ huvema ǀ
saḥ ǀ naḥ ǀ viśvāni ǀ havanāni ǀ joṣat ǀ viśva-śambhūḥ ǀ avase ǀ sādhu-karmā ǁ

References

Maṇḍala · Sūkta · Ṛk
10.081.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.3.16.07
Maṇḍala · Anuvāka · Ṛk
10.06.114
Devatā देवता
Viśvakarman
Ṛṣi ऋषि
Viśvakarman Bhauvana
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.81.7

Interpretations

Sāyaṇa

वाचस्पतिं मन्त्रात्मकस्य वचसः स्वामिनं विश्वकर्माणं विश्वकर्तारं मनोजुवं मनोवेगगमनम् वाजे यज्ञेऽद्यास्मिन्दिन ऊतये तर्पणाय हुवेम। आह्वयाम। स देवो नोऽस्माकंविश्वानि सर्वानि हवनानि जोषत्। सेवताम्। किमर्थम्। अवसेऽस्माकं रक्षणाय। स विशेष्यते। विश्वशंभूर्विश्वस्य सुखस्योत्पादकः साधुकर्मा च॥७॥