Ṛgveda · Maṇḍala 10 · Sūkta 81
Ṛk 10.81.1
Saṃhitā
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ ।
स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥
य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः |
स आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवरां आ विवेश ||
yá imā́ víśvā bhúvanāni júhvadṛ́ṣirhótā nyásīdatpitā́ naḥ ǀ
sá āśíṣā dráviṇamicchámānaḥ prathamacchádávarām̐ ā́ viveśa ǁ
ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ |
sa āśiṣā draviṇam icchamānaḥ prathamacchad avarāṃ ā viveśa ||
Padapāṭha
यः । इ॒मा । विश्वा॑ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता॑ । नि । असी॑दत् । पि॒ता । नः॒ ।
सः । आ॒ऽशिषा॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्र॒थ॒म॒ऽछत् । अव॑रान् । आ । वि॒वे॒श॒ ॥
यः । इमा । विश्वा । भुवनानि । जुह्वत् । ऋषिः । होता । नि । असीदत् । पिता । नः ।
सः । आऽशिषा । द्रविणम् । इच्छमानः । प्रथमऽछत् । अवरान् । आ । विवेश ॥
yáḥ ǀ imā́ ǀ víśvā ǀ bhúvanāni ǀ júhvat ǀ ṛ́ṣiḥ ǀ hótā ǀ ní ǀ ásīdat ǀ pitā́ ǀ naḥ ǀ
sáḥ ǀ ā-śíṣā ǀ dráviṇam ǀ icchámānaḥ ǀ prathama-chát ǀ ávarān ǀ ā́ ǀ viveśa ǁ
yaḥ ǀ imā ǀ viśvā ǀ bhuvanāni ǀ juhvat ǀ ṛṣiḥ ǀ hotā ǀ ni ǀ asīdat ǀ pitā ǀ naḥ ǀ
saḥ ǀ ā-śiṣā ǀ draviṇam ǀ icchamānaḥ ǀ prathama-chat ǀ avarān ǀ ā ǀ viveśa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.081.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.16.01
- Maṇḍala · Anuvāka · Ṛk
- 10.06.108
- Devatā देवता
- Viśvakarman
- Ṛṣi ऋषि
- Viśvakarman Bhauvana
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.