Ṛgveda · Maṇḍala 10 · Sūkta 82
Ṛk 10.82.1
Saṃhitā
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने ।
य॒देदंता॒ अद॑दृहंत॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेतां ॥
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नन्नमाने |
यदेद् अन्ता अददृहन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ||
cákṣuṣaḥ pitā́ mánasā hí dhī́ro ghṛtámene ajanannánnamāne ǀ
yadédántā ádadṛhanta pū́rva ā́díddyā́vāpṛthivī́ aprathetām ǁ
cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne |
yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām ||
Padapāṭha
चक्षु॑षः । पि॒ता । मन॑सा । हि । धीरः॑ । घृ॒तम् । ए॒ने॒ इति॑ । अ॒ज॒न॒त् । नम्न॑माने॒ इति॑ ।
य॒दा । इत् । अन्ताः॑ । अद॑दृहन्त । पूर्वे॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥
चक्षुषः । पिता । मनसा । हि । धीरः । घृतम् । एने इति । अजनत् । नम्नमाने इति ।
यदा । इत् । अन्ताः । अददृहन्त । पूर्वे । आत् । इत् । द्यावापृथिवी इति । अप्रथेताम् ॥
cákṣuṣaḥ ǀ pitā́ ǀ mánasā ǀ hí ǀ dhī́raḥ ǀ ghṛtám ǀ ene íti ǀ ajanat ǀ námnamāne íti ǀ
yadā́ ǀ ít ǀ ántāḥ ǀ ádadṛhanta ǀ pū́rve ǀ ā́t ǀ ít ǀ dyā́vāpṛthivī́ íti ǀ aprathetām ǁ
cakṣuṣaḥ ǀ pitā ǀ manasā ǀ hi ǀ dhīraḥ ǀ ghṛtam ǀ ene iti ǀ ajanat ǀ namnamāne iti ǀ
yadā ǀ it ǀ antāḥ ǀ adadṛhanta ǀ pūrve ǀ āt ǀ it ǀ dyāvāpṛthivī iti ǀ aprathetām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.082.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.17.01
- Maṇḍala · Anuvāka · Ṛk
- 10.06.115
- Devatā देवता
- Viśvakarman
- Ṛṣi ऋषि
- Viśvakarman Bhauvana
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.