Ṛgveda · Maṇḍala 10 · Sūkta 82
Ṛk 10.82.4
Saṃhitā
त आय॑जंत॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥
त आयजन्त द्रविणं सम् अस्मा ऋषयः पूर्वे जरितारो न भूना |
असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ||
tá ā́yajanta dráviṇam sámasmā ṛ́ṣayaḥ pū́rve jaritā́ro ná bhūnā́ ǀ
asū́rte sū́rte rájasi niṣatté yé bhūtā́ni samákṛṇvannimā́ni ǁ
ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā |
asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni ||
Padapāṭha
ते । आ । अ॒य॒ज॒न्त॒ । द्रवि॑णम् । सम् । अ॒स्मै॒ । ऋष॑यः । पूर्वे॑ । ज॒रि॒तारः॑ । न । भू॒ना ।
अ॒सूर्ते॑ । सूर्ते॑ । रज॑सि । नि॒ऽस॒त्ते । ये । भू॒तानि॑ । स॒म्ऽअकृ॑ण्वन् । इ॒मानि॑ ॥
ते । आ । अयजन्त । द्रविणम् । सम् । अस्मै । ऋषयः । पूर्वे । जरितारः । न । भूना ।
असूर्ते । सूर्ते । रजसि । निऽसत्ते । ये । भूतानि । सम्ऽअकृण्वन् । इमानि ॥
té ǀ ā́ ǀ ayajanta ǀ dráviṇam ǀ sám ǀ asmai ǀ ṛ́ṣayaḥ ǀ pū́rve ǀ jaritā́raḥ ǀ ná ǀ bhūnā́ ǀ
asū́rte ǀ sū́rte ǀ rájasi ǀ ni-satté ǀ yé ǀ bhūtā́ni ǀ sam-ákṛṇvan ǀ imā́ni ǁ
te ǀ ā ǀ ayajanta ǀ draviṇam ǀ sam ǀ asmai ǀ ṛṣayaḥ ǀ pūrve ǀ jaritāraḥ ǀ na ǀ bhūnā ǀ
asūrte ǀ sūrte ǀ rajasi ǀ ni-satte ǀ ye ǀ bhūtāni ǀ sam-akṛṇvan ǀ imāni ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.082.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.17.04
- Maṇḍala · Anuvāka · Ṛk
- 10.06.118
- Devatā देवता
- Viśvakarman
- Ṛṣi ऋषि
- Viśvakarman Bhauvana
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.