Ṛgveda · Maṇḍala 10 · Sūkta 82
Ṛk 10.82.6
Saṃhitā
तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छंत॒ विश्वे॑ ।
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥
तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे |
अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ||
támídgárbham prathamám dadhra ā́po yátra devā́ḥ samágacchanta víśve ǀ
ajásya nā́bhāvádhyékamárpitam yásminvíśvāni bhúvanāni tasthúḥ ǁ
tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve |
ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ ||
Padapāṭha
तम् । इत् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअग॑च्छन्त । विश्वे॑ ।
अ॒जस्य॑ । नाभौ॑ । अधि॑ । एक॑म् । अर्पि॑तम् । यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः ॥
तम् । इत् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्ऽअगच्छन्त । विश्वे ।
अजस्य । नाभौ । अधि । एकम् । अर्पितम् । यस्मिन् । विश्वानि । भुवनानि । तस्थुः ॥
tám ǀ ít ǀ gárbham ǀ prathamám ǀ dadhre ǀ ā́paḥ ǀ yátra ǀ devā́ḥ ǀ sam-ágacchanta ǀ víśve ǀ
ajásya ǀ nā́bhau ǀ ádhi ǀ ékam ǀ árpitam ǀ yásmin ǀ víśvāni ǀ bhúvanāni ǀ tasthúḥ ǁ
tam ǀ it ǀ garbham ǀ prathamam ǀ dadhre ǀ āpaḥ ǀ yatra ǀ devāḥ ǀ sam-agacchanta ǀ viśve ǀ
ajasya ǀ nābhau ǀ adhi ǀ ekam ǀ arpitam ǀ yasmin ǀ viśvāni ǀ bhuvanāni ǀ tasthuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.082.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.17.06
- Maṇḍala · Anuvāka · Ṛk
- 10.06.120
- Devatā देवता
- Viśvakarman
- Ṛṣi ऋषि
- Viśvakarman Bhauvana
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.