Ṛgveda · Maṇḍala 10 · Sūkta 82
Ṛk 10.82.2
Saṃhitā
वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् ।
तेषा॑मि॒ष्टानि॒ समि॒षा म॑दंति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥
विश्वकर्मा विमना आद् विहाया धाता विधाता परमोत संदृक् |
तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर एकम् आहुः ||
viśvákarmā vímanā ā́dvíhāyā dhātā́ vidhātā́ paramótá saṃdṛ́k ǀ
téṣāmiṣṭā́ni sámiṣā́ madanti yátrā saptaṛṣī́npará ékamāhúḥ ǁ
viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk |
teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ ||
Padapāṭha
वि॒श्वऽक॑र्मा । विऽम॑नाः । आत् । विऽहा॑याः । धा॒ता । वि॒ऽधा॒ता । प॒र॒मा । उ॒त । स॒म्ऽदृक् ।
तेषा॑म् । इ॒ष्टानि॑ । सम् । इ॒षा । म॒द॒न्ति॒ । यत्र॑ । स॒प्त॒ऽऋ॒षीन् । प॒रः । एक॑म् । आ॒हुः ॥
विश्वऽकर्मा । विऽमनाः । आत् । विऽहायाः । धाता । विऽधाता । परमा । उत । सम्ऽदृक् ।
तेषाम् । इष्टानि । सम् । इषा । मदन्ति । यत्र । सप्तऽऋषीन् । परः । एकम् । आहुः ॥
viśvá-karmā ǀ ví-manāḥ ǀ ā́t ǀ ví-hāyāḥ ǀ dhātā́ ǀ vi-dhātā́ ǀ paramā́ ǀ utá ǀ sam-dṛ́k ǀ
téṣām ǀ iṣṭā́ni ǀ sám ǀ iṣā́ ǀ madanti ǀ yátra ǀ sapta-ṛṣī́n ǀ paráḥ ǀ ékam ǀ āhúḥ ǁ
viśva-karmā ǀ vi-manāḥ ǀ āt ǀ vi-hāyāḥ ǀ dhātā ǀ vi-dhātā ǀ paramā ǀ uta ǀ sam-dṛk ǀ
teṣām ǀ iṣṭāni ǀ sam ǀ iṣā ǀ madanti ǀ yatra ǀ sapta-ṛṣīn ǀ paraḥ ǀ ekam ǀ āhuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.082.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.17.02
- Maṇḍala · Anuvāka · Ṛk
- 10.06.116
- Devatā देवता
- Viśvakarman
- Ṛṣi ऋषि
- Viśvakarman Bhauvana
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.